________________
कृतपुण्यः कृताञ्जलिः पप्रच्छ । भगवन् ! केन कर्मणा पूर्वभवार्जितेनास्मिन् भवेऽन्तराऽन्तरा सम्पदो विपदोऽभूवन् मम ।। वीरः प्राह-पूर्वभवे श्रीपुरे त्वं वत्सपालकोऽभूः । परं दौर्गत्यनिर्विणः परमान्नं गृहे गृहे निष्पद्यमानं वीक्ष्य मातरं । प्रति जगौ-परमान्नं मे देहि । अम्बा रुन्दती जगौ-पुत्र ! गृहे किमपि नास्ति, कथं परमान्नं दीयते । अन्नं नास्ति जलं नास्ति, नास्ति मुद्दा युगन्धरी । धान्यं च लवणं नास्ति, तन्नास्ति यदि भुज्यते ॥ १॥ ततस्तां रुदन्ती बालं च ।
रुदन्तं वीक्ष्य प्रातिवेश्मक्यस्तन्दुलदुग्धशर्करादि ददुः तस्यै । तया परमान्नं निष्पादितम् । पुत्राय परमान्नं परिवष्य Mall कार्यार्थ प्रातिवेश्मकगृहे ययौ । इतो मासक्षपणपारणके साधुद्वयं तत्र विहर्तुमागतम् । साधुद्वयं कृशशरीरं चारि
पात्रं दृष्ट्वा दध्यौ गोपाल:-अहो मे सफलं जन्म, दिनोऽयं रुचिरोऽद्य मे । यामोऽयं सुन्दरो मेऽद्य, वेलेयं मेऽद्य । सुन्दरा ॥ १॥ यतोऽधुना समायातं, वयं साधुद्वयं स्फुटम् । प्रतिलान्य भविष्यामि, कृतार्थोऽन्नं तमोहरम् ॥ २॥ ततस्तदा हृष्टचेताः स्वस्थानादुत्थाय प्रणम्य, गोपालंकोऽवग्-मम भाग्यमागतं युष्मत्पादानामत्रागमनात् । अयं । शुद्धग्रासाहारोऽङ्गीक्रियताम् । एकं भागं परमान्नस्य दत्त्वा पुनर्दध्यौ । एतन्मात्रेण परमान्नेनास्य किं भविष्यति । ततो द्वितीयं भागं एवं तृतीयं भागं च एतस्मै कृतपुण्यः ददौ । एवं त्रिवार दत्तं परमान्नम् । ततो
JainEducation
alll
For Private & Personal Use Only