________________
तन्तुजीवो नष्टः गजो मुत्कलोऽभूत् । पटहभेरीमृदङ्गादिबहूनि बादित्राणि वाद्यन्ते । राजा हृष्टः । कान्दविकस्य राज्ञा । सन्मानं कृतं । कान्दविको हृष्टोऽभूत् । वाद्यमानेषु बहुवादित्रेषु सेचनकगजारूढो राजा तुरङ्गमारूढाभयकुमारः कान्द- । विकयुक् नानाप्रकारं दानं याचकेभ्यो विश्राणयन् स्वगृहमाजगाम । कान्दविकः सन्मानितः सन् खमणिमादाय गतः । इतो राजा अभयकुमारमाकार्य रहस्यवग् । कान्दविकस्यात्मनः पुत्री राजपुत्रवरयोग्या कथं दास्यते मनोरमाहया । अभयोऽवग-स्वामिन् खेदो नानेयः । यस्य रत्नमिदं भविष्यति, तं बुद्ध्या प्रकटीकरिष्यामि । ततः सर्व । युष्मन्मनोऽभिमतमेव भविष्यति । ईदृशं रत्नं जलकान्तरूपं राजगृहामात्यगृहे मुक्त्वा कान्दविकतुल्यनीचगृहे न भवति। यतः-"पीयूषं रजनीकरे वरतराभासश्च सूर्येऽबुधौ, रत्नानां निचयो मरुत्तरुगणो मेरौ ग्रहा अम्बरे । स्वर्गे स्वर्गिगजस्तथा । सुरहयो गीर्वाणगौ मजुला। चक्रं चक्रिनिकेतने भवति वै नान्यत्र तिष्ठेत क्षितौ ॥१॥ रत्नानि रोहणक्ष्माभृद्वार्धिष्वेव भवन्ति हि । गजा विन्ध्याटवीष्वेव प्राप्यन्तेऽन्यत्र नैव हि ॥२॥ तथा वर्याणि वस्तूनि, रत्नादीनि च भूतले। भवन्ति | मेदिनीपाल-महेभ्यामात्यसद्मसु ॥३॥" तेन कस्यापि व्यवहारिणो रत्नमिदं भविष्यति । यस्य भविष्यति च तस्मै
। पुत्री दास्यते । ततो राजा हृष्टः । राज्याई पुरयां कान्दविकाय दास्यते इति कथयित्वाऽभयकुमारेण
in Educh an in
For Private & Personal Use Only
Mrjainelibrary.org