SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ " श्रीभरते- कद्वयं दत्त्वा तं प्रस्तरं ललौ बालं वञ्चयित्वा । ततस्तन्मोदकद्वयं भक्षयित्वा हृष्टोऽपरघुण्टकेन पट्टिकां घुण्टयित्वा श्रीकृतपुण्य चरित्रम् । वरवृत्ति" लेखशालां गतो बालः कृतपुण्यपुत्रः । कान्दविकेन स प्रस्तरो गुप्तीकृतः । क्रमादन्येयुः श्रेणिकभूपतेः सेचनको | हस्ती गङ्गानद्या मध्ये जलं पिबन् स्नानं कुर्वन् तन्तुजीवेन निरुद्धः निर्गन्तुं न शक्नोति । अनेके उपचाराः कृताः। | परं स हस्ती जलान्निर्गन्तुं न शक्नोति यदा । तदा राजा श्रेणिकोऽभयकुमारमन्त्रियुक् तत्रागात् । राज्ञाऽपि बहव । | उपचाराः कृतास्तथापि गजो बहिर्न निर्याति । ततः खिन्ने भूपतौ अभयकुमारो बुद्धिमानुवाच । तन्तुजीवेन हस्ती में Kal गृहीतोऽसौ यदि जलकान्तो मणिर्जलमध्ये गजपार्श्वे मोच्यते तदा जलं द्विधा भवति तन्तुजीवो गजं मुक्वा जल मध्ये गच्छति । ततो भूपेनोक्तं भाण्डागारादानीयतां जलकान्तो मणिः । अभयकुमारस्ततो भाण्डागारं विलोक्य प्राह|| स्वामिन् भाण्डागारे जलकान्तमणि स्ति, तेन पुरमध्ये पटहो वाद्यते । यः कश्चिज्जलकान्तमणिमानयिष्यति तस्मै राज्याईयुता स्वपुत्री दास्यते मया । ततो भूपादेशादनुगैः पटहो वाद्यमानः पुरमध्ये स्थाने स्थाने कान्दविकगृहोपान्ते गतः, तदा कान्दविकेन पटहः स्पृष्टः । ततो राजपार्श्वमानीते कान्दविके राजपुरुषै राजा मुमुदे । बहुलोक-10 | ॥८॥ युतो राजा नदीतीरे गतः ततः कान्दविको जलकान्तमणिमानीय राजपाचें मुमोच यावत्तावज्जलं द्विधाचक्रे । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy