________________
स्ताभिः शम्बलकृते मोदकचतुष्टयं तदर्थ कृतम् । तन्मध्ये रत्नचतुष्टयं क्षिप्तम् । ततो दासीपार्शदुत्पाट्य तं सुप्तं । वस्त्रप्रान्तबद्धमोदकचतुष्टयं पूर्वस्थाने पुरमध्ये मुमोच वृद्धा । तदानीमेव पूर्व विदेशे गत्वा द्वादशवर्षाणि भ्रान्त्वा || तस्मिन्नेव स्थाने स एव सार्थवाहोऽवततार । श्रुतं कृतपुण्यप्रियया सार्थाऽगमनम् । तत्राऽगता पतिं सुप्तं दृष्ट्वा पार्श्वे । स्थिता यावत्तावत् उज्जजागार पत्नी ददर्श च हृष्टः। ततःप्रियायुक्तः कृतपुण्यः स्वगहे समागात् । भक्त्या गौरवितःसदन्नपानदानतः पन्या भर्तुः पुरः पुत्रोत्पत्तिस्वरूपं प्रोक्तम् । पन्या प्रोक्तं-पते! किमानीतं तेनोक्तं किमपि नार्जितं मया पूर्वकृतपापोदयात् । अपरं किमपि नोक्तं लज्जया। मोदकचतुष्टयं कान्ताऽऽनीतं तया भाजनमध्ये क्षिप्तम् । पुत्रोऽन्यदा लेखशा-10 लायां गत्वा प्रातराशकृते समागतः। मात्रा दत्तं मोदकं गृहीत्वा लेखशालायां गतः। तत्र मोदको भक्षितः, तन्मध्याहिशिष्टःप्रस्तरो निर्गतः! बालकस्तं प्रस्तरं दृष्ट्वा लेखशालिकाऽग्रेप्राह । ममायं विशिष्टो घुण्टकः पट्टिकाघुण्टनार्थ भविष्यति।। तं घुण्टकं गृहीत्वा कान्दविकगृहे पट्टिकामज्जनार्थ गतः। पट्टिकां मज्जयतस्तस्य हस्तादकरमाद् घुण्टिको जलभृतभाजनान्तः पतितस्तदा जलं द्विधाऽभूत् । तज्जलं तथाभूतं दृष्ट्वा कान्दविको दध्यौ । अयं प्रस्तरो जलकान्तरत्नं । बहुमूल्यं तेन किमपि सुखभक्षिकामस्मै वितीर्य गृह्यते मया यदि तदा वरम् । एवं ध्यात्वा कान्दविकस्तस्मै वर्यमोद
Jan Education
For Private
Personel Use Only
Tww.jainelibrary.org