________________
॥ श्रीभरते- श्वर वृत्तिः॥
॥८
॥
त्वं पुत्र जातमात्रोऽपि, हतः केनापि पाप्मना ॥ ३ ॥ इत्युक्त्वा सा जरती प्राह-इदानीं तावकीनस्य, ज्येष्ठबन्धोर्वि-श्रीकृतपुण्यपत्तितः । तव संपत्तितश्चास्मि, शोकहर्षसमाकुला ॥ ४ ॥ बन्धुवध्वश्चतस्रोऽमूरमूश्च विपुलाः श्रियः । एता नद्या चरित्रम्। इवाम्भोधिमगाधं त्वामुपस्थिताः ॥ ५॥ अतः परं पुत्र त्वयाऽन्यत्र कुत्र न गन्तव्यं स्वेच्छयाऽत्र स्थेयम् । आभिर्वधूभिः समं भोगान् मुंव । कृतपुण्यो दध्यौ। किं स्वप्नं लभ्यमानमस्ति । अथवाऽसौ एव मां स्थापयति तदा स्वर्गसौख्यमेव । समुपस्थितम् । एवं ध्यात्वा कृतपुण्योऽवग्-मातर्मम सर्व विस्मृतम् । अधुनाऽत्राऽऽगां शुभकर्मोदयात् । ततो व्यचिन्त-- यच्चेति सः। यतः-"श्रीयोगः सुदृशां योगः, स्वयंवरमिव द्वयम् । उपस्थितमतो व्योम-प्रसनैः किं विकल्पनैः॥१॥ मातर्मया त्वदीयाज्ञा, देवशेषेव सुन्दरा । पालनीया सदा यत्ना-दिहामुत्र सुखप्रदा ॥१॥ क्रमाञ्चतस्रो वध्वो गर्भy दधुः पुत्राश्चत्वारो बभवुः तेषां जन्मोत्सवः कृतः। तस्य तत्र तस्थुषो द्वादशवत्सरी सुखनिमग्नस्य गता । ततोऽन्यदा वृद्धया प्रोक्तम्-भवतीनां चत्वारः पुत्रा बभवः। तेन राजाऽऽत्मनः श्रियं न गृहीष्यति । ततोऽसौ यत्र स्थानादानीतस्तत्र स्थाने मोच्यते । ताभिरुक्तं मातः कथमयमात्मनो लम्यादिवईको मोच्यते । वृद्धयोक्तं ज्ञायते पुरुषस्वरूपम् ।। कदाचिदसावात्मनः श्रियं बलाद् गृहीष्यति तदा का गतिः । ततो बलात्तं मोचयितुं ताः साग्रहं ग्राहितास्तया । तत-N
For Private Personal Use Only
wि .jainelibrary.org
Jain Education laall