SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Jain Educatio मे समस्ति । तेन त्वं व्यवसायं कुरु । ततः शुभेऽहनि बहुमूल्यं स्वल्पं क्रयाणकं लात्वा प्राचीं दिशं गन्तुकामः कृत| पुण्यः स्फीतसार्थमध्ये रात्रौ पत्न्या तल्पे शायितः क्वचिद्देवकुले । ततः पत्नी पश्चात् स्वगृहे जगाम । इतस्तत्र पुरे | बहुधनवान् घनदेवव्यवहारी वसति स्म । तस्य पत्नी रूपवती । तयोर्धर्मं कुर्वतोर्जिनदत्ताभिधः पुत्रोऽभूत् । | क्रमात् कान्ते मृते ( तया ) जिनदत्तो धर्मकर्मकुशलो महेभ्यपुत्रीश्चतस्रः परिणायितः अनेकप्रकारैर्भोगैस्ताभिर्विलसन्नकस्मान्मृतिं गतो रात्रौ जिनदत्तः । ततस्तया रूपवत्या स्थविरीभूतया सर्वा वधूराकार्य प्रोक्तम्- यदि युष्माकं | भर्ता मृत इति राजा श्रोष्यति तदात्मीयाः सर्वाः श्रियो गृहीष्यति अपुत्रत्वात् । तेन भवतीभिर्न रोदितव्यम् । प्रच्छन्नं | भूमिमध्ये क्षेप्यश्च यथा कोऽपि न जानाति । अहमपि न रोदिष्यामि (अन्यपतिं) चाराधयत तावद्यावत्पुत्रा भवन्तीनां | भवन्ति । ततरता वध्वस्तं पतिं भूमिगतं कृत्वा स्नानं कृत्वा देवकुलोपान्तस्थसार्थसमीपे गताः । कृतपुण्यं पश्यन्ति स्म । तं तथावस्थं शनैरुत्पाट्य स्वगृहे समानीय त्वं पते ! जय चिरमिति जल्पन्ति स्म ताः स्थविरावध्वः । तदा स्थविराऽवग्| स्नुषाचतुष्टयस्यापि पश्यतस्तत्र निस्त्रपा । तदीयं कण्ठमालम्ब्य रुदत्येवमुवाच सा ॥ १ ॥ हा वत्स बहुवात्सल्य, विहाय निजमातरम् । एतावन्ति दिनानि त्वं, क्व यातोऽसि क्व वा स्थितः । निरालम्बा शयालम्बा, तवाम्बाऽस्मि न संशयः । For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy