SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ हुभिः पुत्रैः, शोकसन्तापकारकैः । वरमेकः कुलाऽऽलम्बी, यत्र विश्राम्यति कुलम् ॥ १॥ यैर्वृद्धि नीयते धम्मों, श्रीकृतपुण्य चरित्रम्। बन्धुवर्गकुले यशः । पितुः पुत्रास्त एव स्यु-बरिणः स्वैरिणः परे ॥ १॥ इक्षुक्षेत्रवंशजालीकदलीविषपादपाः ।। फले जाते विनश्यन्ति, दुष्पुत्रेण कुलं यथा ॥२॥” पितरौ यन्मयाऽगाधे, क्षिप्तौ दुःखमहार्णवे । धनं निधनमानीतं, पितृपर्यायसञ्चितम् ॥ ३ ॥ ततः प्राह पत्नी-शोको न कर्तव्यः, यहावि तद्भवति । यतः-" गते शोको न कर्तव्यो, भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन, वर्तन्ते हि विचक्षणाः ॥ १ ॥ कर्मणो हि प्रधा.. नत्वं, किं कुर्वन्ति शुभा ग्रहाः । वशिष्टदत्तलग्नोऽपि, रामः प्रबजितो वने ॥२॥” इत्यादि प्रियावचः श्रुत्वा स्वस्थः सन् शोकं त्यक्त्वा समाधिना कृतपुण्यो गृहेऽस्थात् । क्रमात्तया समं ऋतुसुखमनुभवतः आधानमभूत् पत्न्याः । अथ कदाचित् पत्न्याः पुरः कृतपुण्यः प्राह-मदन्यो नास्ति कोऽपि पापी । यतो मयि जाते मातापितरौ दुःखि मृतौ । मया धनं च निधनं नीतम् । विना धनं वाणिज्यमपि कर्तुं न शक्यते । यतः-"बीजं विना कृषि चाम्बु विना कृषिः । तथा नीवीं विना लक्ष्मी-नार्जितुं शक्यते क्वचित् ॥ १॥ प्रियाऽऽचष्ट स्वामिन् खेदं मा कुरु। अनल्पोऽयमसौ कल्पः स्वस्वाधीनं धनं हि वः । दीनाराणां सहस्रं च, गृह्यतामनुगृह्य माम् ॥२॥ दीनारसहस्रमेक -M ॥८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy