________________
॥ श्रीभरतेश्वर वृत्तिः
॥८५॥
स्म । तस्य तत्र तिष्ठतो द्वादशाब्दानि क्षणवत् जातानि।इतोऽकस्मादुत्पन्नतीव्रज्वरौ मातापितरौ स्वर्ग जग्मतुः। अन्येयुः । श्रीकृतपुण्य
चरित्रम्। सा कुट्टिनी स्वां चेटी धनानयनार्थ कृतपुण्यगृहे प्रेषयामास । चेटी तत्र गता तादृशं पतितप्रायं गृहं शून्यं विलोक्य कृतपुण्यप्रियान्तिके गत्वा जगौ-कल्याणि! तव कान्तेन, प्रेषिताऽस्मि त्वदन्तिके । विज्ञातुं कुशलोदन्तं, धनं चानेतुमञ्जसा ॥१॥ तव कान्तेनास्मत्स्वामिनीपार्श्वस्थेन धनमानयितुमहमत्र प्रेषिताऽस्मि तेन धनमर्पय । तव कान्तः । कुशली सन स्वगृहकुशलादि पृच्छति स्म । सा धन्याऽतीव प्रसन्नाऽऽस्या जगौ-सखि! कान्तस्य तस्याऽऽज्ञा, मम सीमन्तलेखिनी। किमाचक्षे पुनः क्षेमं, देवे प्रातीपिके सति ॥१॥त्वमत्र धनानयनकृते आगास्तद्वरं पुनस्तस्य कान्तस्याज्ञा मया मस्तके कृता । अद्याहमेतया कृतार्थास्मि । किं क्रियते मदभाग्यात्तादृग् श्वश्रूश्वशुरौ स्वर्ग गतौ । श्वश्रूश्वशुराभ्यां । धनं प्रेषं प्रेषं पुत्रस्नेहाद् गृहमीदृशं कृतम् । अधुना मत्पार्श्वे मत्पित्रार्पितमाभरणमेकं विद्यते। तद् गृहीत्वा गच्छ । तत्रानेन भूषणेन मत्कान्तं प्रमोदयातदाभरणमादाय दासी कृतपुण्यपार्श्वे आगता। अर्पितं तदाभरणं तस्मै प्रोक्तं च गृहस्वरूपम्। ततः कृतपुण्यः खिन्नः सन् तदाभरणं तस्यै वेश्याय दत्तवान् । वेश्यायै च कृतपुण्यो गहस्वरूपं प्रोक्तवान् । ततो रहोवृत्त्या | ॥८५॥ कुट्टिन्या प्रोक्तम्-असौ कृतपुण्य उपायेन निष्कासनीयः । ततस्तस्या कुट्टिन्या आदेशाद्यदा (दासी) तस्याभिमुखं धूलि
Jain Education inemational
For Private & Personal Use Only
www.jainelibrary.org