________________
सिंहगिरिकथा वज्रस्वामिकथाया ज्ञातव्या ॥ १३ ॥ ___ दानादिकं वृषं कुर्वन् , शश्वत् भव्यजनः स्फुटम् । कृतपुण्य इवाप्नोति, परत्रेह सुखश्रियम् ॥ १॥ भूमिभामामहाभाल-विभूषणसहोदरम् । पुरं राजगृहं नाम्ना, राजते स्वःपुरीनिभम्॥२॥राजा श्रेणिकनामाऽभूत् तत्रारातितमोऽर्यमा । पालयति स पृथिवीं, न्यायमार्गेण संततम् ॥ ३ ॥धनेश्वराभिधः सार्थ-वाहो भूरिधनेश्वरः। सुभद्रेति प्रिया तस्याऽऽ-सीत्सच्छीलशालिनी॥४॥ क्रमात् कृतपुण्य इति पुत्रोऽजनि तस्य श्रेष्ठिनः पूर्वपुण्योदयात् । क्रमावर्धमानः सर्वकलाकुशलोऽजनि कृतपुण्यः । श्रीदश्रेष्ठिनः पुत्रीं धन्यां मातापितृभ्यां कृतपुण्यः परिणायितः । साधुपार्श्वे तिष्ठन् विषयेषु पराङ्मुखोऽभूत् कृतपुण्यः। ततो मातापितृभ्यां चिन्तितम् । एष कदाचित् प्रव्रज्यांगृहीष्यति तदाऽऽत्मनोः का गतिः। तेन गणिकापार्श्वे मुच्यते । तत्र नटविटादिताहग्संयोगात्तादृशो भविता । यतः-" अंबस्स य निंबस्स य, दुन्हंपि समागयाइ मूलाई । संसग्गीइ विणट्ठो, अंबो निबत्तणं पत्तो ॥१॥" ततो धनेश्वरेण नटविटगणिकापार्श्वे मुक्तः कृतपुण्यः । ततस्तथा शिक्षितः कृतपुण्यो यथा क्रमागणिकाऽऽसक्तः सन् मातापितरावपि न स्मरति स्म । क्रमादिशेषतोऽनङसेनागणिकापार्श्व कामितः सन् कृतपुण्यः क्षणमपि न मुञ्चते । मातापितरौ सर्व धनादि तस्य भोगार्थ प्रेषयतः।
Jain Education |
For Private
Personal use only
w.jainelibrary.org