________________
॥ श्रीभरते- श्वर वृत्तिः॥
कथा।
॥८
॥
तवातीव वर्योऽभिग्रहो येन त्वया एवंविधं कर्म क्रियते । ततो यावन्मन्दं मन्दं गच्छन्नभन्नन्दिषेणस्तावज्जगाद । वर्त्मनि श्रीनन्दिषेणकदाऽपि मम मरणं भविष्यति ततो दुर्गतिपातो भावी । आराधना अपि मम न भविष्यति । ततो नन्दिषेणस्तं साधु तथाभूतं शालायामानीय दध्यौ । अयं साधुर्मया कथं नीरोगः करिष्यते इति खं निनिन्द । ततस्तं वैयावृत्त्ये मेरुनिश्चलं मत्वा देवता प्रत्यक्षीभूय सर्व विष्टादिकमपसंहृत्य पुष्पवृष्टिं तन्मस्तकोपरि कृत्वा प्राह त्वं । धन्योऽसि । यादृशो वासवेन वर्णितस्ततोऽधिकोऽसि । ततस्तं मुनि नत्वा क्षमयित्वा सुरः स्वर्गे गतः । स यतिबादशसहस्राब्दी तपस्तप्त्वा कृतानशनोऽन्यदाऽभूत् । तदाऽनशनिनं वन्दितुं सान्तःपुरचक्री प्राप । तस्य तदन्तःपुरीसुकुमारकुन्तलस्पर्श दृष्ट्वा निदानं चकार । स्त्रीवल्लभोऽहं भव्यमिति । प्रान्ते खं दौर्भाग्यं कर्म स्मृत्वा निदानमिदमकरोत् । भूयासमहं स्त्रीवल्लभोऽनेन तपसा । महाशुक्रेऽसौ मृत्वा देवोऽभूत् । इतः सूर्यपूरेऽधकवृष्णेः सुभद्रायां नवाऽभवन् | पुत्रास्ते चामी--समद्रविजयोऽक्षोभ्य-स्तिमितः सागरस्तथा । हिमवानचलः धरणः परणः अभिचन्द्रः॥१॥ ततो देवलोकात् च्युत्वा नन्दिषेणजीवो दशमः पुत्रो वसुदेवोऽभूत् । तेन सौभाग्यकर्मणा द्वासप्ततिसहस्रमिताः कन्याः ।। परिणीताः । तच्च विस्तरात वसुदेवहिंडिनेमिचरित्रादवगन्तव्यम् । इति नन्दिषेणकथा समाप्ता ॥
॥८४॥
Jain Educational
For Private
Personel Use Only