________________
लोपथिकी प्रतिक्रम्य भक्तपानप्रत्याख्यानं पारयित्वा भोक्तुमुपविशन्नभूत् । साधुः प्राघूर्णकोऽवग् भो साधो | त्वयाऽभिग्रहो गृहीतोऽस्ति । कथं साधुवैयावृत्त्यमकृत्वा भोक्तुमुपविश्यते । साधु नन्दिषेणोऽवग-क्वास्ति साधुग्लानः ।। प्राघूर्णकोऽवक्-पुराद् बहिरस्ति । तेन पानीयं शुद्धं बहु गृहाण । तस्य साधोस्तृषा लग्नाऽस्ति । ततो नन्दिषेणः पानीयं । लाप्रासुकं विहतममत्रं लात्वा गतः श्राद्धगृहे । यत्र यत्र स साधुर्याति, तत्र तत्र देवोऽशुद्ध जलं करोति । अविषण्णे बहुषु गृहेषु भ्रमन् मुनिरकस्मात् लब्धिप्रभावेण सुरशक्तिं विजित्य जलं शुद्ध प्राप्य ततस्तेन प्राघूर्णकसाधुना समं बहिरुद्याने नन्दिषणः साधुसमीपे ययौ । तं साधु तादृशमतीसारिणं दृष्ट्वाऽनेन वैयावृत्त्येनाहं कृतकृत्यो भविष्यामि ।। इति मत्वा मुनि प्रक्षालयितुं प्रवृत्तः । यथा यथा नन्दिषेणस्तं प्रक्षालयति तथा तथा स साधुर्दुर्गन्धमतीसारं मुञ्चति ।। नन्दिषेणो दध्यौ अहो अयमेष साधुर्भाग्यवानपि ईग्रोगभागभूत् । ततः कर्मभ्यः कोऽपि राजा रङ्को वा यतिः शक्रो वा न छुटति । ततस्तं साधुं स्कन्धे कृत्वा पौषधशालायां नेतुं नन्दिषेणश्चचाल । पदे पदे हदन् । दुर्गन्धं कर्कशं च जल्पन् नन्दिषेणशरीरं लिम्पति विष्टया दुर्गन्धया । तथापि नन्दिषेणो न मनाग दुर्गछां // ||चकार । ततो यदा त्वरित चलति नन्दिषेणस्तदासाधुर्जल्पति । एवंविधेन चलनेन मम प्राणा गमिष्यन्ति ।
Jain Educatio
n
For Private
Personel Use Only
च
w w.jainelibrary.org