________________
॥ श्रीभरते"श्वर वृत्तिः ॥
॥ ८३ ॥
विषण्णो वैराग्यवासितः रत्नपुरं पुरं गतः । तत्रापि दम्पती भोगपरौ वीक्ष्य स्वं निनिन्द | अहमीदृगभाग्यवानभूवम् । ततो वने गतो नन्दिषेणो भृगुपातचिकीर्षुः कायोत्सर्गस्थमुनिना वारितः । तं प्रणम्य स्वकर्मस्वरूपं जगौ यतः - " रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । " मुनिर्ज्ञानात्तद्भावमुद्भाव्याभाषत - मुग्ध ! वैरूप्यवैराग्यात् मा कुरुष्व मृतिं, मरणेन कोऽपि पश्चात्कृतकर्मणो न छुटति । यतः - " कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १ ॥ " तस्माद्धर्मेण श्रीवीतरागोदितेन कृतेन तत् प्राक्कृतं कर्म छिनत्ति जनः । तस्माद्यावज्जीवं शुद्धधर्म कुरु । येन भवान्तरे सुखी भवसि त्वं, इत्यादिधर्मोपदेशात् प्रबुद्धो नन्दिषेणो गुरुपार्श्वे ! जग्राह व्रतम् । नन्दिषेणो विनयपूर्वं पठन् धर्म्मशास्त्रं गीतार्थोऽभूत् । ततोऽभिग्रहं च ललाविति । साधूनां लघुवृद्धग्लानानां वैयावृत्यं कृत्वैव मया भोक्तव्यम् । अनिर्वेदेन तं साधुं साधुवैयावृत्त्यं कुर्वाणमवधिना विज्ञाय शक्र एकदा संसदि जगौ - यादृशो नन्दिषेणो वैयावृत्त्यविषये निश्चलोऽस्ति तादृशोऽन्यः कोऽपि नास्ति । देवैरपि न चाल्यते स्वाभिग्रहात् । ततोऽश्रद्दधानः कश्चित् सुर इन्द्रवचो निशम्य रत्नपुरोपान्तेऽभ्येत्यैकेन रूपेण ग्लानसाघुरभवत् । तं साधुमति - सारिणं मुक्तत्वा द्वितीयः साधुरूपभृत् नन्दिषेणपार्श्वे यावच्छालामागात्तावन्नंदिषेणो विहृत्य शालामागत्ये
Jain Education international
For Private & Personal Use Only
श्रीनन्दिषेणचरित्रम् |
॥ ८३ ॥
Www.jainelibrary.org