________________
वैयावृत्यं वितन्वानः साधूनां वरभावतः । बध्नाति तनुमान नन्दि-पेणवत्कर्म सुन्दरम् ॥ १॥
तथाहि-मगधदेशभूषणे नन्दिग्रामे सोमिलो द्विजो वसति स्म । तस्य सोमिला पत्न्यभूत् । तयोर्नन्दनो । नन्दिषेणोऽभूत् । बाल्ये तस्य पितरौ मृतौ । आकेशनखपर्यन्तं तं कुरूपं नन्दिषेणं दौर्भाग्यकर्मोदयं मत्वा स्रजनैरपि तत्यजे स मातुलगृहे स्थितः चारिपानीयानयनादिकर्म करोति स्म । अन्यदा दुःखितं भागिनेयं विनयपरं । मत्वा मातुलो जगौ । मा खेदं कुरु, मम सप्त कन्यकाः सन्ति । ताभ्य एकां कन्यां तुभ्यं दास्ये । ततो विशेषतस्तस्य गृहकर्माणि सोत्साहं कुरुते स्म । मत्वा पितृचेष्टितं नन्दिषेणपरिणयनस्वरूपगर्भितं प्रथमा कन्या ताताग्रे जगौ यद्यहं नन्दिषेणाय त्वया दास्यते तदा मया मर्तव्यमेव । तच्छत्वा नन्दिषेणं व्याकुलं चिन्तापरं मत्वा मातुलोऽवग्-द्वितीयां कन्यां तुभ्यं दास्याम्यहं मा विषादं कुरु । द्वितीयाऽपि तथैव श्रुत्वा प्रथमपुत्रीवज्जगौ एवमन्याभिः प्रतिषिद्धो नन्दिषेणो विषादमापन्नः । तं विषण्णं मत्वा मातुलोऽवग-कस्याप्यन्यस्य पुत्री तुभ्यं दापयिष्यामि । ततोऽन्या या या कन्या तस्यार्थ मातुलेनानीता सा सा दौर्भाग्यकर्मोदयात् नेहते दृष्टया मनसापि । ततो नन्दिषेणो | विषण्णो दध्यौ । अत्र किं स्थीयते मया यदीदृशं कर्म समायातं मरणमेव क्रियते मया । एवं ध्यात्वा नन्दिषेणो||
Jain Education into
For Private & Personal Use Only
www.jainelibrary.org