________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ ८२ ॥
Jain Educa
यावत्तावत्तं पतन्तं करे धृत्वाऽन्यत्र मुक्तत्वा देवतोवाच । किं मुधा मर्तु यतसे । भोगफलमभुक्त्वा न मृतिं यास्यसि । तत एकाकी तीव्रतपः परो नन्दिषेणोऽन्यदाऽनाभोगात् कस्याश्चिद्वेश्याया गृहे आहारार्थं प्रविष्टो धर्मलाभमुच्चचार । वेश्याऽप्याह सहासेयं, | धर्मलाभेन किं मम । शर्मलाभं घनेनाह - मीहे सप्रत्ययं यतः ॥ १ ॥ मामियं हसतीति माना तीव्रात्तृणमाचकर्ष ऋषिर्याव| त्तावद्रत्नकोटिर्द्वादशमिता व्योम्नोऽपतत् तस्य तपोलब्ध्या । शर्मलाभोऽनेन धनेन तवास्त्विति कथयित्वा यावद्यतिर्याति, | तावद्वेश्ययोक्तम्-किन्ते तपोभिर्मृदुता जितपुष्कलदुष्करैः। भोगान् भुंक्ष्व मया प्राण भर्तर्मर्तव्यमन्यथा ॥२॥ ततो मुनिर्देव्युक्तं | भोगफलं मत्वा तां वेश्यामङ्गीचक्रे । ततस्तत्र धर्मोपदेशेन प्रतिदिनं दश दश नटविटान् प्रबोध्य दीक्षां ग्राहयित्वा मया भोक्तव्यमित्यभिग्रहं नन्दिषेणो ललौ । मुक्तर्षिलिङ्गः स तया सह भोगान् भुञ्जानो दिनं प्रति दश दश जनान् प्रतिबोध्य | दीक्षां ग्राहयामास । अन्यदा द्वादशवर्षान्ते भोजनवेलायां जातायामपि यदा दशमो नरो नामित तदा द्वित्रिवारं | रसवत्यां कृतायामकस्माद् हास्येन वेश्ययोक्तम् - स्वामिन्नुतिष्ठ भुव । अद्य दशमो भवानेव भवतु । ततस्तस्या एव तद्वचोऽङ्गीकृत्य तां जल्पन्तीमपि तृणमिव त्यक्त्वा पुनर्गुरुपार्श्वे गत्वाऽऽलोचनां सम्यग् गृहीत्वा दीक्षां लात्वा तीव्रं तपस्तप्त्वा कर्मक्षयं च कृत्वा मुक्तिसुखं नन्दिषेणः प्राप ॥ ॥ इति नन्दिषेणकथा समाप्ता ॥
mational
For Private & Personal Use Only
श्रीनन्दिषेणचरित्रम् ।
11 28 11
www.jainelibrary.org