________________
Jain Educat
వారి వారివ్వవాది ప్రక
| धर्मोपदेशमाकर्ण्य पप्रच्छ भगवन् ! अयं गजो मयि कथं प्रीतिपरोऽभूत् । ततो भगवता तस्य प्राग्भववृत्तान्तः प्रोक्तः इतः श्रेणिकप्रभृतिलोको धर्मं श्रोतुं तत्रागात् । तथाहि - माणुस्सखित्तजाई कुलरूवा रुग्गमाउयं बुद्धी । सवणं गहणं सद्धा, | संजमो लोगंमि दुलहाई ॥ १ ॥ इति श्रुत्वा भगवद्दाणीं प्रबुद्धो नन्दिषेणः संयमं ममार्ग प्रभुपार्श्वे । प्रभुणोक्तम्- चारित्रावरण| कर्मभोगफलं च बलवत् । विद्यतेऽद्यापि दीक्षायै, मा भूइत्स समुत्सुकः ॥१॥ ततः प्रभुणा वार्यमाणोऽपि दीक्षां जिघृक्षुरभूद्यावत्तावदाकाशे इति दिव्या वाणी जाता । मा ग्रहीस्त्वं दीक्षां भोगफलं विद्यते तव । एवमुक्तेऽपि नन्दिषेणो दीक्षां जग्राह नन्दिषेणः प्रमोदात् षष्ठाष्टमादितपः परोऽविश्रमं विजहारानुप्रभुं वीरम् । सूत्रार्थवाचनापरो द्वादश भावना | भावयन् द्वाविंशतिं २२ परीषहान् सहमान: कर्मद्रुमुन्मूलयामास । तथाहि - " खुहापिवासासीउन्ह - दंसा चेलारइत्थिय । | चरियानिसीहिआ सिज्जा अक्कोसवहजायणा ॥ १ ॥ अलाभरोगतणफासा, मलसक्कारपरसिहा । पण्णाअन्नाणसमत्तं, | इय बावीसपरीसहा ॥२॥" अथोद्भवन्तीं भोगेच्छां भोगकर्मोदयाद्रोद्धुं तपः प्रबलं करोति नन्दिषेणः आतापनां करोति स्म वा । यतः - " आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजयासु समाहिया ॥ १ ॥ ” | चारित्रवारिणी देवता नित्यं तस्य भोगाम्बुधौ पातयितुं यततेरम । ततश्चारित्रं रक्षितुं पर्वतमारुह्य झंपां दातुकामोऽभून्नन्दिषेणो
national
For Private & Personal Use Only
www.jainelibrary.org