SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ न्ययुत मखप्रियः स दासस्तं प्रत्यवग्-मखशेष मह्यं यदि ददासि तदोत्तिष्ठामि नान्यथा। विप्रोऽपि प्रतिपेदे तदीयं वचः । लब्धं लब्धं भीमः साधवे ददाति । तैः पुण्यैः स दिवं गत्वा, च्युत्वा राजगृहे पुरे । श्रेणिकक्षोणिभुग्पुत्रो, नन्दिषणाभिधोऽभवत् ॥ १॥ मखप्रियस्तु भूरिषु भवेषु भ्रान्त्वा वने करिण्या उदरेऽवततार । अस्य यूथस्याधिपोऽन्यो । IN माभूदिति धिया ध्यायन यूथाधिपतिर्जातं जातमपत्यं हन्ति स्म । स्वान्यपत्यानि यूथपतिना हन्यमानानि दृष्ट्वा दन्तिनी दध्यौ । तनूजरक्षणोत्साहो विद्यते मम । तेन ज्ञायते यः पुत्रोऽधुना भविष्यति स नमितारिर्भावी । तेन जातमात्र एव । मया त्रातव्योऽन्यत्र मुक्त्वा इति ध्यात्वा मायया वातग्रस्तीभूय मन्दं मन्दं पश्चात् पतति युथस्य । पशूनामप्यपत्येषु । मोहो भवति । यतः "आदाय मांसमखिलं स्तनवर्जमङ्गात, मां मुञ्च वागुरिक ! यामि कुरु प्रसादम् । अद्यापि शष्यक-II] वलग्रहणानभिज्ञा, मन्मार्गमार्गणपराः शिशवो मदीयाः॥१॥" असौ करिण्यन्यभोग्या मा भवतु । अतः क्षणं प्रतीक्ष्यते । सा तु मन्दं मन्दं चलन्ती घटया घटीद्वयेन च पत्युमलिति । एवं क्रमात दिनेन दिनद्वयेन च मिलति । हस्ती दध्यौ इयं पत्नी वातग्रस्ताऽभूत् । किं क्रियते । ततोऽभूथपो विश्रम्भचेताः । कदाचित् प्रसवसमयं मत्वा । यूथपे मौलितृणपूला तापसाऽऽश्रमं ययौ। विनयवती करिणीं शरणार्थिनीमिव मत्वा मुनयःप्रोचुः । पुत्रि ! तिष्ठ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy