SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ PEOS ॥ श्रीभरते- श्वर वृत्तिः॥ ॥७९॥ श्रीवनस्वामिचरित्रम्। रक्षितोऽपि दीक्षां जग्राह । पुनर्घात्रा गन्तुं तत्रोत्साहितो जगौ । श्रीवत्रपार्श्वे कियदशमतः पूर्वादधीतं मया कियदुरितं गुरुभिरुक्तम् । एको बिन्दुरधीतोऽस्ति दशमपूर्वाम्बुधेः । ततः सविशेषं पठन् दशमपूर्वार्द्ध पपाठाधिकं नायाति । ततश्चिन्तितं पूर्व पुरान्निर्गच्छतो मम सार्हा नव इक्षुयष्टयो दत्ताजनकमित्रेण । तेनाधिकं नायास्यति मम । ततः प्राप्तसूरिपद। आर्यरक्षितो भ्रातृयुतो गुरुं प्रणम्य चलितःक्रमाद्दशपुरं पुरं समागात।पुरीप्रवेशकरणपूर्व पुरमध्ये आगत आर्यरक्षितः। नृपादिसर्वलोकैर्धर्मोपदेशः श्रुतः । तैश्चिन्तितं च एवंविधो धर्मोपदेशः कुत्रापि न श्रुतः। राजा श्राद्धोऽभूत् । सोमदेवः प्रबुद्धो दीक्षां जग्राह । यथा च सम्यक्चारित्रं प्रपेदे स सम्बन्ध आर्यरक्षितचरित्राद् ज्ञेयः । इतः श्रीवत्रोऽन्यदा विहरन् । दक्षिणां दिशं ययौ । तत्रस्थोऽन्यदा श्लेष्माऽऽकुलो यतिभिराग्रहात् द्विविधं प्रत्याख्यानं कारितो वज्रस्वामी सुंठी वा। कुर्वन् कर्णपुटस्थितां चकार । पश्चाद् ग्रहणार्थ स्वाध्यायरसेन तां विसस्मार । प्रतिक्रमणक्षणे मुखवस्त्रिकानुन्नां सुंठीमग्रे पतितां वीक्ष्य दध्यौ । धिग् मां यत ईदृशः प्रमादोऽभूत् । अतः परं ममाल्पायुर्विद्यते ईदृग्प्रमाददर्शनात् । तत्तनोमि देहत्यागमनशनग्रहणात् । तदा द्वादशाब्दे दुर्भिक्षे जायमाने स्वशिष्यमन्यतो वज्रो व्यहारयत् वज्रसेनम् । तादृशे दुर्भिक्षे जायमाने भिक्षामलभमानांस्तपोधनान् वीक्ष्य विद्याबलाहृतेनान्नेन युष्मान पोषयामीत्यादिशत् ॥७२॥ For Private Jain Education www.jainelibrary.org Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy