SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Jain Education तेनानशनं गृहीष्येऽद्य । गृहीतानशनः श्रीभद्रगुप्तसूरिवादीत् । वज्रपार्श्वे गच्छ तत्र दृष्टिवादं पठेः । वज्रपार्श्वे विद्यां गृह्णता त्वया पृथगुपाश्रये स्थेयं भोक्तव्यं च कारणमस्ति । तत्र यः श्रीवत्रमण्डल्यां बुभुजे स तेन सार्द्धमनशनं ग्रहीता भविष्यति । तथेति गुरुवचः प्रतिपद्य नियमणां गुरोः कारयित्वाऽऽर्यरक्षितो वज्रस्वामिपार्श्वे दृष्टिवादं पठितुमचालीत । वत्रः स्वप्नमितोऽद्राक्षीत, कोऽप्यागत्य मदन्तिकात् । पपौ भूरितरं क्षीर - मवशिष्टं किमप्यभूत् ॥ १ ॥ स्वप्नस्यार्थे प्रगे वचः शिष्याणामग्रे प्राह- कोऽप्यपूर्वस्तादृशः शिष्यः समेष्यति । यो न्यूनां दशपूर्वीमस्मत्पार्श्वात् गृहीष्यति । अस्मिन्नवसरेऽकस्मादार्यरक्षितो नैषेधिकीकरणपूर्वं वसतिमध्ये प्रविश्य श्रीवत्रस्वामिनं ववन्दे । स पृष्टः श्रीवत्रेणागमनकारणं सर्व जगौ । श्रीभद्रगुप्तवाचानुज्ञाप्य भिन्नं प्रतिश्रुत्य दृष्टिवादमधीयायार्यरक्षितः । नवपूर्वी पठित्वा दशमस्य विषमं यमकत्रजं पठत्यार्यरक्षिते पितुः संदेशा आययुः । वत्स त्वां विना वयं दुःखिता जाताः । तेनात्रागमनेन नः सुखिनः कुरु । ततस्तत्पूर्वं त्वरितमध्येतुं प्रवृत्तः । इतः फल्गुरक्षितोऽनुजोऽभ्येत्यार्थरक्षितं प्रति जगौ । यदि मातृपितृविषये वात्सल्यमस्ति ते तदा तत्रागत्य मातापित्रादिबन्धून् प्रमोदय । केचित् प्रव्रज्यार्थिनः सन्ति बान्धवाः । अथार्यरक्षितोऽवग्-वत्स गमिष्यते तत्र, दीक्षा रोचते तव तदा गृहाण । ततः फल्गु I For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy