________________
श्रीवनस्वामिनः चरित्रम्।
॥७८॥
॥ श्रीभरते-यावच्छालाहारमगात् तावच्छ्रीगुरुभिः पाठ्यमानानां साधूनां मालवकीप्रमुखमन्द्ररवमाकार्यरक्षितो मुमुदे, श्वर वृत्ति
वसतौ कथं केन विधिना प्रविश्यते इति च दध्यौ । तदा धार्मिको ढढरो नैषेधकी कुर्वन् वसतिद्वारं प्रविवेश । |उच्चगीः ढट्ठरः प्रत्येकं गुरून् वन्दित्वाऽपरान् साधून वन्दित्वा प्रमार्य भूमिं स्थितः । ढढरकृतं सर्व वीक्ष्यार्यरक्षितस्तथैव सर्वान् वन्दित्वाऽस्थात् । सूरिणा ध्यातं को नूतनोऽयं श्राद्धः । यतो ढढुरमवन्दित्वोपविष्टः । पृष्टं च गुरुणा तव को गुरुः सोऽवग् ममायमेव आडो गुरुः । येनास्य पार्थात् मया ज्ञाता विद्या । ततः पृष्टं गुरुणा कुत आयातो भवान् ! कृती विनयपूर्वमार्यरक्षितः स्वं वृत्तान्तं सर्व सोमदेवभूर्गुरुभ्य आचष्ट । भद्रभावं तं च मत्वा गौरवाद् गुरवो, जगुः। दृष्टिवादं च परिव्रज्यां विनाऽध्येतुं न बुध्यते । सोमदेवसूनुः प्राह-तर्हि संयमं मह्यं देहि। ततो गुरुस्तं योग्यं पात्रं मत्वा । दीक्षा दत्त्वाऽग्रतो विजहार आरक्षितो गुरुपाश्र्वं पठन् स्तोकैरेव दिनैरेकादशाङ्गीमङ्गीचकार । आसीद्यावान् दृष्टिवादो। गुरुपाचे तावान् एष गुरुभिः पाठितः । ततः प्रोक्तं वत्स ! यद्यधिकदृष्टिवादभणने वाञ्छाऽस्ति तदा वज्रस्वामिपार्श्वे । गत्वा दृष्टिवादमधीष्व । तत आर्यरक्षितो महापुरी प्रत्यचालीत् । उज्जयिन्यां भद्रगुप्ताचार्यसन्निधौ गतः । गुरवो वन्दिताः। गुरुभिरुपलक्ष्योक्तम् । वत्स ! वयं कृतं यद् ब्राह्मण्यमुन्मुच्य श्रामण्यं गृहीतम् । गुरुभिरुक्तं च अहं वृद्धोऽभूवम् ।
Jain Educate
-
ational
For Private & Personal Use Only
www.jainelibrary.org