________________
Kel पप्रच्छ मातरम्। मातरहं भूरिशास्त्राणि अधीत्याऽऽगां तव किं हर्षो न दृश्यते । माताऽऽह-वत्स ! किमनया कुविद्यया नरक
हेतुना । किं ताए विज्जाए. पयकोडीए पलालभआए । जत्थ इत्तियं न नायं, परन्स पीडा न कायवा ॥१॥ पुत्रः । प्राह । मातः केन शास्त्रेण पठितेन ते हर्षः स्यान्माताऽऽह-वत्स ! यदि मातुर्भक्तोऽसि, तदा दृष्टिवादं मुक्तिसुखदमधीष्व ।। प्रवणो दृष्टिवादोक्तौ, श्रमणोपासको भव । विना दिनाधिपोपास्ति, न दृश्यं हि महन्महः ॥ १ ॥ सूरिस्तोसलिपुत्रोऽस्ति, सदिक्षुवणसंश्रितः । भज तं दृष्टिवादाय, यष्टिमादाय भूयसीम् ॥ २॥ प्रातर्मातः करोमीद-मित्युदित्वाऽर्यरक्षितः । दृष्टिवादं कदाऽधीये ध्यायन्निति निशि स्थितः ॥ ३॥ प्रातर्मातापितरावा(वना)पृच्छय चचाल सः। पुरानिर्गच्छन्नार्यरक्षितः केनचित् पृष्टः कोऽसि त्वं, सोऽवग्-अहमार्यरक्षितः । ततस्तेन पुरुषेणालियेदमुक्तम् । शाखापुराश्रयोऽहं त्वपितृमित्रं महाद्विजः गृहचिन्ताभरमग्नोऽस्मि । त्वमुत्सुकोऽपि प्रातरिमा इक्षुयष्टीः सा नव गृहाण । ततस्ता इक्षुयष्टी गृहीत्वा जगौ । अहमग्रतः कार्यार्थी याताऽस्मि । त्वया इक्षुयष्टयर्पणवृतान्तो मम मातुरने प्रोक्तव्यः। आर्यरक्षितोऽग्रतश्चचाल । विप्रेणार्यरक्षितस्वरूपे प्रोक्ते रुद्रसोमा ध्यौ । नव पूर्वाणि सार्हाणि मत्सुतो लप्स्यते ।। आर्यरक्षितोऽपि ध्यातवान् अहं सार्द्धनवपूर्वी भविष्यामि साईनवेक्षुप्राप्तेः गुरूनहं वन्दिष्ये . इति ध्यायन्
in Educat
Inational
For Private & Personel Use Only
www.jainelibrary.org