________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ ७७ ॥
Jain Educat
वनेभ्यः पुष्पभृतानि करण्डकान्यानयामास । तदा तस्मिन् पर्वणि बहूनि पुष्पाणि देवैरानीतानि वीक्ष्य जिनालये | महोत्सवं जायमानं चानेके बौद्धा मानं मुक्त्वा श्रीवत्रस्वाभिपादान् नेमुः । राजापि बौद्धो जिनधर्मभक्तोऽभूत् । इतश्च दशपुरे पुरे सोमदेवो द्विजोऽभूत् । रुद्रसोमा जिनधर्मभाग् तस्य पत्न्यभूत् । तयोरुभौ सुतौ आर्यरक्षित - | फल्गुरक्षितौ अभूताम् । अधीयानः सुधीर्मौञ्जी - चन्धादेवार्थरक्षितः । यावत्यभूत् पितुः पार्श्वे विद्यामादत्त तावतीम् | ॥ १ ॥ ततोऽधिकविद्यार्थी पाटलीपुत्रं आर्यरक्षितो ययौ । तत्र सर्वविद्याविशारदो भूत्वा स्वपुरसमीपे समागात् । सर्वविद्यापारगं मत्वा संमुखमेत्य राजा तं गजारूढं कृत्वा महामहोत्सवपुरस्सरं नृपः पुरमध्ये आनिनाय । राज्ञा | सन्मानितश्च धनदानात् । ततोऽनेकलोका उपायनपाणयस्तं सेवन्ते स्म । गृहस्य बहिःशालायां बन्दिभिः स्तूयमानोऽस्थात् । स्वजनास्तोरणस्वस्तिकादिकं चक्रुः । अन्येद्युरार्यरक्षितो दध्यौ मां धिक्। एवं पदवीं प्राप्तेनापि मया मातृपदौ न नतौ । आर्यरक्षितो दध्याविति । अस्मत्सुखैकसुखिनी - मस्मद्दुःखैकदुःखिनीम् । प्रवासगुफलैर्विद्या - वित्तैरानन्दयामि ताम् | | ॥१॥ एवं ध्यात्वा मध्ये गृहं गत्वा मातृपदौ आर्यरक्षितो ननाम । माता जगौ भो वत्स ! दीर्घायुर्भव। परं मातुस्तादृग् हर्षो न दृष्टः । पुत्रप्रेमान्वितां मातृवाणीमप्राप्यार्यरक्षितो दध्यौ । नयि माता किं प्रसन्नीभूय न वक्ति । कोऽपराधो मया कृतः । प्रणम्य
For Private & Personal Use Only
श्रीवज्रस्वामिनः
चरित्रम् |
॥ ७७ ॥
www.jainelibrary.org