SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ ७५ ॥ Jain Education स्वामिने दातुमनाश्चचाल । इतो लोकैः श्रीवत्रस्वामिनो रूपसौभाग्यौदार्यक्षान्तिप्रभृतिगुणान् वर्ण्यमानान् श्रुत्वा धनो दध्यौ । अहो धन्या मदीया पुत्री । या वरस्यैवंविधस्येच्छां करोति वरीतुम् । धनो वज्रस्वामिनं नत्वा धर्मोपदेशमाकर्ण्य कृताञ्ज| लिव्र्व्यजिज्ञपत् । इमां मत्सुतां त्वदासक्तां त्वमुद्दह । वज्रस्वामी मम पति-मृतिर्वा शरणं मम ॥ इत्यस्यां सप्रतिज्ञायां, कृपां कुरु कृपामय ! ॥ १ ॥ अमूः स्वर्णकोटीरनया कन्यया समं तुभ्यं पाणिमोचनकर्मणि दास्यामीति धनवचः श्रुत्वा वज्रो भाषतेस्म । नदीकल्लोलकुम्भीन्द्र-कर्णध्वजादिचञ्चलाः । भोगाः पुण्यश्रियां रोगा- स्तद्योगानीहतेऽत्र कः | ॥ १ ॥ स्त्रियः श्रियश्च निश्चित्य तन्निदानमनादितः । तद्दानमुचितं भाति किं महाभाग ! मां प्रति ॥ २ ॥ किमियं । मयि मांसासृग-स्थिकूटेऽनुरागिणी । दिशामस्याः पतितं (तो) यो, देवानामपि दुर्लभः ॥ ३ ॥ यस्य प्रेष्या गुणाः सर्वे, रूपश्रीर्यस्य किङ्करी । यस्य दास्यः श्रियः सर्वा यस्य किञ्चिन्न दूषणम् ॥ ४ ॥ यत्प्रसादकणाद्भान्ति, सुरासुरनरेश्वराः । कोशो यस्यातिभक्त्यैकप्रदेयपदमव्ययम् ॥ ५ ॥ कृतिन् स तवकन्यायाः, संयमोsस्तु | मनःश्रियः । यदि त्वमनुजानासि तत्करोमीह मेलनम् ॥ ६ ॥ आघातं मरणेन जन्मजरया ० ॥ ७ ॥ व्याघ्रीव तिष्ठति जरा परितर्जयन्ती ● ॥ ८ ॥ क्षणं बालो भूत्वा• ॥ ९ ॥ रुप्पिणिअहिगरणीए, लोहघणेणं घेणं For Private & Personal Use Only श्रीवज्रस्वामिचरित्रम् | ॥ ७५ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy