SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education मध्येता नास्ति । ततस्त्वं वत्स गच्छहितकृद्गच्छेोज्जयिनीं प्रति दशपूर्वीमधीत्य दशदिग्स्थभव्यजनान् प्रबोधय वज्र । दशपूर्वीसुधापुर - पानध्यानस्य तेऽनिशम् । संनिधानं विधास्यन्ति प्रीताः शासनदेवताः ॥ १ ॥ इति प्रोक्तं गुरुवचो दृढीकृत्य चित्ते मुदं वितन्वानो वज्रोऽचलदुज्जयिनीं प्रति । वज्रः साधुभ्यां द्वाभ्यां युक्तो मार्गे गच्छन् गगने मार्तण्डो बुधशुक्राभ्यामिव शुशोभ । यतः - " युक्तो गुरुनियुक्ताभ्यामृषिभ्यां स बभौ पथि । सञ्चलन् गगने शुक्र| बुधाभ्यामिव भानुमान् ॥१॥ दिदृक्षुर्भद्रगुप्ताख्यं, दशपूर्वीसुधावधिम् । उज्जयिन्यामयं यातो, रजन्यामवसद् बहिः ॥ २ ॥ इतः सुप्तोत्थितो भद्र - गुप्तः शिष्यान् प्रगे जगौ । प्रातःक्षणे मया स्वप्न, ईदृशोऽद्य निरीक्षितः ॥ ३ ॥ जानामि कश्चिदागन्तु- र्दुग्धपूर्ण पतद्ग्रहम् । गृहीत्वाऽस्मत्करात्पीत्वा तृप्तश्च मुमुदेतराम् ॥ ४ ॥ तेनाद्य कोऽपि साधुर्मेधावतां धुर्यः स | समेष्यति । यो मे पार्श्वे दशपूर्वी गृहीष्यति । अद्य मे सफलः सैष, दशपूर्वी परिग्रहः । भविष्यति द्रुतं तादृग् - वाचंयम| समागमात् ॥ १ ॥ दिष्ट्या न यास्यति मयि, व्युच्छित्तिं दशपूर्व्यसौ । यतोऽद्यात्र वरं पात्रं, समेष्यति न संशयः ॥ २ ॥ एवं जल्पति सूरीशे, हर्षपूरितमानसे । जल्पन्नैषेधिकीं वज्रो, वसत्या द्वारमागमत् ॥ ३ ॥ आकृतिं प्रकृतिं चास्य, दध्यौ । | पश्यन्निदं गुरुः । अयं साक्षात् समायातो, योऽद्य दृष्टो मया निशि ॥ ४ ॥ वज्रो हर्षोत्कर्षवशंवदो गुरुं प्रदक्षिणी ional For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy