SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ ॥७३॥ ज्ञपंश्चेति वयं सार्द्धमेष्यामः । गुरुभिरुक्तम्-बहुस्थानकैः परिसरे गन्तुं न शक्यते । आधाकर्मादिनिष्पत्तिः तत्र श्रीवन स्वामिदोषोत्पत्तेः । यतः " आहाकम्मुद्देसिय-पूइयकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाउअरवियपामिच्चे ॥१॥lal चरित्रम। परियट्टिअब्भुहडु, भिन्ने मालोहडे य अच्छिज्जे । अणिसिट्ठज्झोयरए, सोलस पिंडुग्गमे दोसा ॥२॥" यतयो व्यजिज्ञपन्कोऽस्माकं वाचनां दास्यति । गुरुभिरुक्तम्-वज्रो वो वाचनां दास्यति । ततस्ते साधवोऽवितथमिदं गुरुवचो | मन्यमानाः प्रतिपेदिरे । प्रातर्मुरुषु ग्रामं गतेषु साधुप्रार्थितो वज्रस्तेभ्यः साधुभ्यो वाचनां ददौ । साधवस्ते सुखबोधां वाचनां गृह्णन्तो दध्युः । एषः किं साक्षात् सरस्वत्यवतीर्णा अथवा बृहस्पतिः । अथ विहृत्य गुरव आगताः । पृष्टं च गुरुभिः । भो साधवो युष्माकं वाचना सुखेन जाता । तैरुक्तमद्यप्रभृति वाचनाचार्यों वज्जोऽस्माकं भवतु । अयं बालोऽप्यबालभावः साक्षात् सरस्वती मूर्तीभूय समागताऽस्माकं वाचनां दातम् । ततो वज्रमुज्जम्भितोदयं गुरवस्तमशेषशास्त्रादिरहस्यमपाठयन् । यावन्मात्रः श्रीदृष्टिवादोऽभूत् तावहज्रोऽपाठीद्गुरोः पार्था । अथ विहरन्तो गुरवो जन्तुपापापहारका वज्रसहिताः पुरं दशपुर जग्मुः । एकदा श्रीगुरुपादा जगुः श्रीवजं प्रति । अवन्त्यां श्रीभद्रगुप्तसुरिर्दशपूर्वी विद्यते । दशपूर्वीमध्येतुं तस्यान्तिके गच्छ । त्वां विनाऽन्यो मच्छिष्यः कोऽपि तच्छिष्यो कोऽपि दशपूर्वी-IN) ॥७३॥ Jain Educati o nal For Private & Personel Use Only Silwww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy