SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ देवपिण्डो न कल्पते, ततो देवास्तं वजं ज्ञानवन्तं मत्वा व्योमगामिनी विद्यां तस्मै ददुः । स्थविरैरुक्तं वज्र त्वं पठ।। वज्रस्तु वां शक्तिं गम्भीरत्वाददर्शयन् तस्थौ । अन्येद्युर्भिक्षार्थ साधुषु गतेषु सूरिषु च बहिभूमिं गतेषु वज्र एकाकी वसतौ स्थितः । साधुमण्डलिकाकारेण सर्वामुपधि स्थापयित्वा, स्वयं मध्ये गुरुरिवोपविश्योच्चैःस्वरेण एकादशाङ्गवाचना वज्रो ददौ । इतो गुरवो द्वारमागता मध्ये एकादशाझ्या वाचनां ददानं वज्रं श्रुत्वा क्षणं तस्थुर्दध्युश्च । किं साधवो के विहृत्यागतास्तेषां वाचनां ददानोऽस्ति वज्रः। द्वारकपाटकाणके एकाकिनं वजमालोक्य गुरवो दध्यः। अहो अस्य शिशोरेवंविधं गाम्भीर्यमेवंविधायां विद्यायामागतायां सत्यां स्वमेकादशाङ्गीज्ञातृत्वं कस्याप्यग्रे न प्रकटीचके वज्रः ।। एष मुनिरेवंविधां चेष्टां कुर्वन् मास्मलज्जिष्ट । इति ध्यात्वा गुरुभिरुचैर्निषेधकोचारो विहितः । वज्रो गुरुशब्दमुपलक्ष्य में तत्क्षणमुपधिं स्वस्थानके विमुच्य संमुखमागत्य द्वारमुद्घाट्य च गुरोः क्रमरेणुं ममार्ज । तेनाद्य मुक्तिवामाक्षी-- वशीकरणकारणम् । गुधिरजसा भाले, बालेन तिलकं कृतम् ॥ १ ॥ प्राविष्टरनिविष्टस्य, गुरोः प्रासुकवारिणा । पादौ प्रक्षालयामास, वासनाभासुरोपमः॥२॥ श्रीगुरवस्तमेकादशाङ्गीविदुरं विनथिनं मत्वाऽन्येद्युः कस्मिंश्चिद्ग्रामे | यियासवो यतीन् प्रोचुः । वयं विहारं परिसरे करिष्यामः । दिनचतुष्टयं लगिष्यति तत्र । ततो यतयो जगुः व्यजि Jan Education intematon For Private Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy