________________
यच्छीरं, सागरसलिलाउ हुज्ज बहुययरं । संसारंमि अणंते, माऊणं मन्नमाणाणं ॥१॥” इति वचनात् । श्रीसक-श्वतुर्विधो मुक्त्यादिसुखदाता स्तोकेषु भवेषु प्राप्यते । प्राप्तेऽपि श्रीसङ्घ तस्य वचनाराधनं स्तोकेष्वेव भवेषु कृतमस्ति । । यद्यधुना मातुर्वचो मन्यते, तदाऽवश्यं मम श्वभ्रे पातो भवति । इतो धनगिरिसाधू रजोहरणं दर्शयन्निति प्राह-जइ सि कयज्झवसाओ, धम्मज्झयभूसियं इमं वयरं । गिन्ह लहुं रयहरणं, कम्मरयपमज्जणं वीरं ॥१॥ जीवानां कर्मबद्धानां, सुलभाऽम्बा भवे भवे । धर्मश्च दुर्लभश्चैकः, कर्मनिर्मूलनक्षमः॥ २॥ इत्यादि श्रीसङ्घधनगिरिप्रोक्तं श्रुत्वा कुमारो हृष्टः । ततः श्रीसङ्ग्रेन श्रीगुरुयुक्तेन रजोहरणमुखवस्त्रिके मुक्त्वोक्तं भो वज्र ! यदि तव संयमग्रहणेच्छा भवति तदा रजोहरणादि गृहाण । नो चेन्मातृमुक्तं वस्तु गृहाण । श्रीसंघो मान्ध एवेति ध्यात्वा रजोहरणं मुखवस्त्रिकायुक्तं कृत्वा मस्तके धृत्वा च ननर्त वज्रः । रजोहरणहस्तोऽयं, पितुरुत्सङ्गसङ्गतः । शमामृतसरोऽम्भोजे, हंस इवाशभत् शिशुः ॥१॥ सुनन्दा दु:खिनी भूता व्यचिन्तयदेवम् । पुत्रः प्रवजितो भ्रातृ-पती प्रवजितौ मम । प्रव्रजाम्यहमप्याशु, भामि नैकाकिनी गृहे ॥ १॥ विचिन्त्यैवं सुनन्दा स्वगृहे गता। यतयश्च वज्रमादाय स्वस्थाने गताः । वज्रस्तु व्रतिनीभ्योऽर्पितः। स च तत्रस्थो यतिनीभिर्गण्यमानामेकादशाङ्गीमपाठीत् । श्रता
For Private
Personel Use Only
www.jainelibrary.org