SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ ७१ ॥ Jain Educatio 1 राजाऽवग्-एवं भवतु । ततस्तया सिंहकेसरमोदकमत्संडीद्राक्षावरसोलकादि सुखभक्षिकादि स्वर्णमय कन्दुकभ्रमरकस्थगनकवर्चुल कहारार्द्धहारकटकादि रमणकयोग्याभरणादि समानीय एकतः सुनन्दया प्रोक्तम् । भो पुत्र ! वत्स एतानि वस्तूनि अङ्गीकुरु । त्वं मम त्राणकृद्देवो, गुरुस्त्वं मोददायकः । आधारोऽसि स्फुटं वज्र !, मदुत्सङ्गं समाश्रय ॥ १ ॥ त्वदीयो जनको दीक्षां, ललौ विमुच्य मां द्रुतम् । तेन त्वमेव मे प्राणा--धारोऽसि नन्दनाऽधुना ॥ २ ॥ लोकस्यास्य पुरस्तेजो, दीनाया पुत्र ! पुष्य मे । एह्यालिङ्गनदानेन, गर्भवासानृणो भव ॥ ३ ॥ नृपाज्ञया सुनन्दाऽपि, बालक्रीडनकानि च । विविधानि च भक्ष्याणि, दर्शयन्त्येतमभ्यधात् ॥ ४ ॥ हस्तिनोऽमी अमी अश्वाः पत्तयोऽमी अमी रथाः । तत्र क्रीडार्थमानीता - स्तद्बहाणेह बालक ! ॥ ५ ॥ मोदका मण्डकाख्या वा, शर्करा मधुधूलिकाः । यदिच्छसि तदस्तीह, गृह्यतामेहि नन्दन ! ॥ ६ ॥ जनन्या वचांसि एवंविधान्याकर्ण्य दध्यौ वज्रः । माता तीर्थं निगद्यते लोकैस्तदपि सत्यं परं माता इह लोके सत्यामेव सम्पदि सुखदा भवति । स्वार्थमेव पुत्रमुत्पादयति, न पुत्रस्यार्थम् । श्रीसङ्घः श्रीगुरवश्च इहलोके परलोके च सुखदा भवन्ति । श्रीसङ्घश्व तीर्थ|ङ्करस्यापि मान्योऽस्ति । श्रीस आराधिते माताऽऽराधितैव, माता अनन्तेषु भवेषु जाताऽस्ति । यतः " पीयं थण For Private & Personal Use Only T 333 श्रीवज्र स्वामि चरित्रम् | ॥ ७१ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy