________________
जगृहुः । यत:-" यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते. कामः शाम्यति दाम्यतींद्रियगणः कल्याणमुत्सी उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां, स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तत्र किम् ॥१॥" ||अन्ये बहवरतापसभक्तजनाः श्राडा जाताः । ते तापसा ब्रह्मद्वीपिकनामानोऽभूवन् ब्रह्मद्विपाधिवासात इतस्तत्र श्रीवस्त्रिहायनोऽभूत् । साधवो धनगिर्याद्या विहारं कुर्वाणास्तत्र समाजग्मुः । तत्रायातं धनगिरि मत्वा स्वपुत्रं तस्मात् पश्चाद् गृहीष्यामीति हृष्टाऽजनि सुनन्दा । महर्षिभ्यः खनन्दनमयाचत । तेऽपि यतयस्तमददाना|| एवं जगुः । त्वया सर्वसाक्षिकं पुत्रो विश्राणितो धनगिरये । अधुना कथं याचसे । लज्जसेऽपि न । विक्रीतस्य दत्तस्य च क्वापि मार्गणं न भवति । सुनन्दाऽवग-मया विमर्श विनाऽर्पितः पुत्रः । सहसा कृतं कार्य न कार्यसंपत्तिघटामाटीकते । श्रीसङ्गो जगाद-सुनन्दे ! त्वया दृढीकृत्य पुत्रः पुरा गुरुभ्योऽर्पितः । अधुना
कथं गुरवोऽङ्गीकृतं पुत्रमर्पयन्ति । साधुभिर्यद्विहरितं तत् सर्वथा पश्चान्नाप्यते । ततः श्रीसङ्घः सुनन्दा च लाविवदमानौ भूपपार्श्वे ययतुः । साधयोऽपि तत्र गताश्च । राज्ञोक्तं यस्य पार्श्वे स बालो गच्छति तस्याऽयं ज्ञेयः । सुनन्दयोक्तम्-अयं बालः पूर्वमेषां साधनां चिरपरिचितो जातोऽस्ति । तेनाहं-प्रथमं सुखभक्षिकादिदानेनाऽऽकारयिष्यामि ।।
in Education in T
ona
For Private & Personel Use Only
"www.jainelibrary.org