SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ ७० ॥ Jain Educatio | रम । तत एकस्य महर्द्धिकस्य श्राद्धस्याग्रे रहः प्रोक्तं त्वमेवं कुरु । तस्य तापसस्य पार्श्वे गच्छ । तत्र त्वया तत् करणीयम् । ततः श्राद्धरतस्य तापसस्य पार्श्वे गतोऽवग् । त्वत्तुल्यः कोपि तपस्वी न दृष्टः । यस्येदृशी जलोपरि चलनशक्तिः । | मया जैनं मतं विलोकितम् । तत्र कोऽपि तपःप्रभावो न दृश्यते । अतः परं त्वमेव मम गुरुर्भवतु । तापसेनोक्तम्-त्वं विघटयिष्यसि श्रेष्ठी जगौ--मदीयोक्तं मेरुरिव स्थिरं जानीहि । एकदा मदीये गृहे कल्ये पारणकदिने त्वया | भोजनाय गन्तव्यम् । तापसोऽवग्-यदि तवेच्छा भवति तदाऽऽगमिष्यते मया । द्वितीयदिने तापसः श्राद्धगृहे भोजनं | कर्तुमागात् । तदा श्रेष्ठिनातीव भक्तिं दर्शयता तापसस्य पादौ प्रक्षालितौ । प्रच्छन्नं पादुके अपि प्रक्षालिते । ततः | सरसरसवत्या भोजयित्वा तापसं, तापसं प्रेषयितुं मनुष्यसहस्रयुतश्चचाल । नदीसमीपे समागात तापसो यावत्तावत् | आर्यशमिताचार्योऽपि तत्रागात् । तापसो यावन्नदीमध्ये प्रविष्टस्तावन्मज्जन्नभूत् । ततो लोका हसन्त्यहो तापसस्य व गतं | तपोऽधुना । तत आचार्येणोक्तं भो भो तापसा ! भो भो जना ! विलोकयत सावधानीभूय जिनमतप्रभावम् । गुरुणोक्तं भो नदि ! यदि मम तपो निस्तुषं भवति तदा त्वं द्विधाभूय मार्गे देहि । ततो नद्या दत्ते मार्गे आर्यशमिता| चार्यः सपरिवारो नद्या अपरं तटं गतः । तं चमत्कारं श्रीआर्यशमिताचार्यकृतं वीक्ष्य सर्वे तापसा मुक्तगर्वा दीक्षां For Private & Personal Use Only श्रीवज्रस्वामिचरित्रम् । ॥ ७० ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy