SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ ६९ ॥ Jain Educato धनगिरिः शमित साधुयुतो विहरन् श्राद्धगृहे क्रमात सुनन्दाया गृहेऽगमत् । तं मुनिं तत्रागतं दृष्ट्वा सुनन्दा दुःखिता । | पतिं प्रति जगाद । अहमनेन सूनुना विलक्षीकृताऽतीव दुःखिनीकृता । त्वदीयोऽयं सूनुः त्वमेव गृहाण ममानेन न किमपि कार्य । मयि कालसमो विद्यतेऽयम् । तेनानुग्रहं कृत्वा त्वं लाहि । घुर्योपि निस्पृहाणां त्वं गृहाणाङ्गजमात्मनः । ममोपरि कृपामत्र, कुरु कारुण्यसागर ॥ १ ॥ स्मृत्वा गुरूक्तं धनगिरिः प्राह-यथा तब रोचते चित्ते तथा कुरु । उक्तं च यतिना । पश्चात्तापवती पश्चात्, पुनर्भद्रे भविष्यसि । अमुं विश्राणितं पुत्रं, लभसे न कथञ्चन ॥ २ ॥ ततः सुनन्दयोक्तं एताः सख्यस्तेऽत्र साक्षिण्यः । अहं पश्चान्न मार्गयिष्यामि । इत्युक्त्वा तं बालं पात्रबन्धे विस्तारिते । |सुसाधुना सुनन्दा मुमोच । तं बालं गृहीत्वा धनगिरिर्धर्मलाभं पूर्वं दत्त्वा च क्रमाद् गुरुपार्श्वे जगाम । बालभारेण नमद्भुजं धनगिरिमा गच्छन्तमालोक्य श्रीगुरुराचष्ट ' अयं बालो वज्र इव भारकृद्विद्यते ' इति वज्रकुमारनामास्य भवतु । ततो गुरुभिः सच्चित्तमपि तं बालमुत्सङ्गे लात्वा यावत्संमुखं विलोकितं तावद् बालेन तेन हर्षितम् । ततः सूरिभिः पालनार्थ साध्वीनामप्पितम् । साध्वीभिश्च शय्यातरीणां पालनाय विश्राणितः । ततो रोदनान्निवृत्तो बालः । शालामध्ये पालनस्थः स्तन्यपानादिभिः पाल्यमानः शिशुः साध्वीभिर्गण्यमानामेकादशाङ्गीं पपाठ । ational For Private & Personal Use Only श्रीवज्रस्वामिचरित्रम् | ॥ ६९ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy