________________
यतः-" अयि तात! न ते तातः, प्रावजिष्यत् पुरा यदि। अभविष्यत्तदोद्दामो, जातकोत्सवस्तव ॥१॥ विना | पुमांसं न स्त्रीभिः, स्याद्विश्वानन्दकृन्महः । असति द्युमणौ दीप्र-दीपिकाभिरिवाभितः॥२॥" इत्याद्यालापान सखिप्रोक्तान् श्रुत्वा दत्तावधानः कुमार ऊहापोहपरो जातिस्मृति प्राप्य पूर्वभवं स्मृत्वा प्रव्रज्यां जिघृक्षु शं रोदनमेव करोति यतो रोदनं विना मां माता न त्यक्ष्यति । ततो मात्रा सखीजनैश्च सुधामधुरैर्वचोभिश्चारूक्तिभिश्च चूलाचुम्बनैश्चान्दोलनादिभिश्च क्रियमाणैर्न रोदनान्निवृत्तः कुमारः। एवं तस्य सुनो रुदतोऽर्द्धसंवत्सरं जातम् । ततः सुनन्दाऽपि रुदन्ती भृशं जगौ-किमस्माच्छिशोश्छुटिष्यते ? देहजातत्वाइन्तुं न शक्यते, यद्यस्य पिताऽऽयाति तदा तस्मै दत्त्वाऽहं मुखिनी भवामि, तेन पुत्रेण किं क्रियते येन क्षणमपि सुखं न भवति । अधुना एवं करोति पुत्रः वृद्धः सन् न ज्ञायते किं करिष्यति । एवं विलपन्ती सुनन्दा विलक्षाऽभूत् । इतो धनगिर्यार्यशमितादिसाधुयुतः श्रीसिंहगिरिसूरिरन्यतो विहृत्य तत्रागात् । श्राद्धैः पुरप्रवेशमहोत्सवः कृतः । गुरुभिरुपदेशो दत्तः। मध्यान्हे आर्यशमितान्वितो धनगिरिगुरुं प्रति प्राह-भगवन्नादेशं देहि । आवां विहृत्यर्थ पुरमध्ये गच्छावः। गुरुभिरतिशयज्ञानवद्भिः प्रोक्तं भवतोरद्य महान् लाभो भविष्यति । तत्र सचित्ताचित्तविमर्शो न कार्यः । गुरुप्रोक्तं श्रुत्वा तथेत्युक्त्वा
Jain Education
For Private & Personal Use Only
MITwww.jainelibrary.org