________________
॥श्रीभरतेश्वर वृत्तिः॥ ॥६८॥
तथाहि-जम्बूद्दीपविभूषणोऽवन्तिदेशोऽस्ति, तत्र तुम्बवनाभिधसन्निवेशो विद्यते । तत्रैव धनगिरिनामा व्यवहारी- श्रीस्थूलभद्र धर्मी धनेन धनदोपमो वसतिस्म । लघुत्वेऽपि धनगिरिः शमरसं वहन् बभूव । तस्य च पितरौ विवाहं कर्तुकामौ |
कथा श्रीव
ब्रस्वामिकन्यां विलोकयामासतुः । यदा धनगिरेतुं सुतां महेभ्या आयान्ति तदा धनगिरिर्जगौ। मह्यं खां कन्यां दातुं वाञ्छत चरित्रम्। यूयम् । परमहं दीक्षां गृहीष्यामि परिणीता कन्यां त्यजतो मम दूषणं न देयम् । तदा धनपालमहेभ्यपुत्री सुनन्दा जगौ। अस्मिन् भवे धनगिरि मुक्त्वा नान्यं नरं परिणेष्यामि । धनगिरिस्तां कन्यामनिच्छन्नऽपि दक्षिां जिघृक्षन्नऽपि बलात सा कन्या सुनन्दा तं धनगिरिमङ्गीचकार विवाहमहोत्सवपुरस्सरम् । अन्यदा विरागवानपि कर्मयोगतः ऋतुस्नातां तां कन्यां । धनगिरिर्बुभुजे । इतः पूर्व श्रीअष्टापदतीर्थे यो देवो जृम्भकः श्रीगौतमपार्श्वे पुण्डरीकाध्ययनं शुश्राव श्रद्दधे च स देवः स्वर्गाच्च्युत्वा सुनन्दाया ऋतुस्नातायाःगर्भेऽवततार । ततो धीमान् धनगिरिरापन्नसत्त्वां प्रियां मत्वा जगौ-भद्रे! तवाय गर्भो भद्राय भवतु, यत्र तव भ्राताऽऽर्यशमिताभिधः संयम ललौ तत्राहं सिंहगिरेगुरोः पुरः प्रव्रजिष्यामि । ततः पत्नी तादृशीं मुक्त्वा संयमं गृहीत्वा धनगिरिस्तपांसि तप्यमानो गुरोर्मुखात् सिद्धान्तामृतरसं पीतवान् । इतः शुभेऽहनि उच्चेषु ग्रहेषु सुनन्दा नन्दनं प्रासूत वज्र, वजाकरोवींव वज्रं पूर्वेव रविं, सख्यस्तदा समागतास्तं बालमित्थमालपन,
॥६८॥
Jain Eduent
For Private & Personal Use Only
I
www.jainelibrary.org