SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ ६७ ॥ Jain Education सांनिध्यात् स्वस्थानमाययौ । चूलिकाः श्रीसङ्घाय ददौ यक्षा । "चूलियं तु पवक्खामीति ॥” ततो यक्षा श्रीसङ्घयुता धर्मे | चकार । अन्येद्युः सप्तापि यक्षाद्या भगिन्यः खं भ्रातरं वन्दितुं ययुः । वनमध्ये श्रीगुरुपादान् प्रणम्य प्रोचुः । भगवन् ! | कास्ति अस्माकं भ्राता । गुरुणोक्तम्- अग्रतो गच्छत यूयं अशोकवृक्षाधः स्थितः स्थूलभद्र एकान्ते स्वाध्यायं कुर्वन्नस्ति । ततस्ताः स्थूलभद्रं नन्तुं यावदग्रतो गच्छन्ति तावत् स्वभ्रातृस्थाने सिंहं वीक्ष्य भीताः पश्चाद्गुरुपार्श्वेऽभ्येत्य | खिन्ना जगुः - अस्माकं भ्राता स्थूलभद्रः सिंहेन भक्षितः । तत्र सिंह एव दृष्टो न भ्राताऽस्माभिः । गुरुभिरुक्तं खेदं | माकुरुत यूयम् । भवतीनां भ्राता कुशली समस्ति । गच्छत यूयं पुनर्वन्दिष्यते भ्राता भवतीभिः । ततः पुनस्तत्र गता यक्षाद्या भगिन्यः वन्दितो गुरुः स्थूलभद्रस्ताभिः चमत्कृता भगिन्यः, स्थूलभद्रेण पृष्टेन सिंहविकुर्वाणादिस्वरूपं प्रोक्तम् । स्थूलभद्रं नत्वा गुरुपार्श्वे सिंहवृत्तान्तं कथयित्वा गुरुं नत्वा स्वस्थाने गताः । ततः स्थूलभद्रस्तत्र स्वाध्यायं कृत्वा गुरुपार्श्वेऽभ्येत्य वाचनां ययाचे । गुरुराचष्ट अतः परं वाचना न दातव्या अयोग्योऽसि त्वम् । त्वया यदि सिंहरूपं कृतं तर्हि अन्येषां का कथा । कालस्वभावादग्रतो विद्या न जरिष्यति । विद्या सत्पात्रे दातव्या न कुपात्रे । यतः " आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंत रहस्सं, अप्पाहारं विणासेइ ॥ १ ॥” ततः स्थूल For Private & Personal Use Only श्रीस्थूलभद्र कथा । ॥ ६७ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy