SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२ तिसत्तखुत्तो निसुणंति कप्पं, भवण्णवं ते लहु संतरंति ॥ १ ॥ " इत्यादि । गुरुपार्श्वस्थेन श्रीयकेन भगिनीवचनात पौरुषी कृता । ततः सार्द्धपौरुषी ततः पुरिमार्द्ध:, ततोऽपार्द्धपौरुषी । तत उपवासः कृतः । दिनं महोत्सवेन जायमानं व्युत्क्रांतं श्रीयकेन समाधिना रात्रिस्तु दुःशक्या जाता । मध्यरात्रौ आकुलव्याकुलः श्रीयकः स्मारितपञ्चनमस्कारः परलोकं ययौ । मृते सहोदरेऽग्निसंस्कारे कृते यक्षा दुःखिता श्रीसङ्घाग्रे जगौ - मयाऽतीवाविमृष्टं कृतं यतो भ्राता एव मारितः । ततः प्रायश्चित्तात् कथं छुटिष्यामि । ऋषिघातो मया विदधे । तेन मम श्वभ्रपातो भविष्यति । | अहमात्मघातेन मरिष्ये । श्रीसङ्घः प्राह - तव दूषणं न त्वया तु हितबुद्ध्या भ्रातोपवासं कारितः । तव पुण्यमेव | भविष्यति । स तव भ्राता स्वर्गभागभूत् । तयोचे - जिनवचो विना न मन्येऽहम् । यदि जिनेन्द्रः साक्षादाख्याति, तदा मम सन्देहो याति क्षयम् । ततः श्रीसङ्घे कायोत्सर्गे स्थिते शासनदेव्या यक्षा शनैरुत्पाट्य व्योममार्गेण श्रीसी| मन्धरपार्श्वे मुक्ता । ततस्तया श्रीजिनो नतः । स्वसन्देहे पृष्ठे तया श्रीसीमन्धरो जगौ । तव दोषो न । श्रीयकस्तु | तेनोपवासेन बहु कर्म क्षित्वा प्रथमदिवि गतः । मुक्तिं यास्यति च । ततः श्रीसमिन्धरस्वामी धर्मोपदेशद्वारा चूलिकाचतुष्टयं | ददौ । तया यक्षयैकचित्तत्वेन चूलिकाचतुष्टयमङ्गीकृतम् । ततो भग्नसन्देहा यक्षा श्रीसीमन्धरस्वामिनं नत्वा शासनदेवी- 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy