________________
Jain Educatio
दुष्काले पतिते द्वादशाब्दीमिते साधुसङ्घस्तोयधितीरस्थः श्रीगुरुपार्श्वे समाजगाम । तस्मिन् विषमसमये जायमाने क्रमादगुण्यमानत्वाद् बुभुक्षया पीडितत्वाच्च मुनीनां सिद्धान्तो बहुविस्मृतः, ततः साधूनां पाटीलपुरपत्तने श्रीसङ्घो | मिलितः । यो यस्याध्ययनस्योद्देश आयातोऽभूत् स स एकत्र कृत्वा एकादशाङ्गो पूर्णीकृता श्रीसङ्केन । ततो दृष्टिवादकृते श्रीसङ्घो मुनिद्वयं श्रीभद्रबाहुपार्श्वे प्रैषीत् । ताभ्यां प्रणम्योक्तम् पाटलीपुरे गुरवस्त्वामाकारयन्ति । भद्रबाहुगुरुराह - मया महाप्राणाभिधं ध्यानमारब्धमस्ति । तेनाधुना मम तत्रागमनं न भविष्यति । तन्मुनिद्वन्द्वं पश्चादेत्य श्रीभद्रबाहुना प्रोक्तं जगौ - ततो गुरुणा सङ्घेन चानुशिष्य मुनी द्वौ प्रेषितौ तत्र गत्वोचतुर्भद्रबाहुगुरुपार्श्वे ! सङ्घादेशं न यः कुर्याद्दण्डः कार्योऽस्य कीदृशः । अथाचार्यो जगादैवं, सङ्घबाह्यः क्रियते सः ॥ १॥ तौ यती प्रोचतुः भगवन्ननेन वचनेन भवन्त एव सङ्घबाह्याः । ततः श्रीभद्रबाहुर्जगौ । सङ्घादेशः प्रमाणं ममाधुना महाप्राणध्यानकरणात वेला नास्ति । तथापि श्रीसङ्घाग्रहात्तेभ्यो यतिभ्यः सप्त वाचना मया दास्यन्ते । यतः- “ एकां भिक्षात आयाते, तत्र दाताऽस्मि वाचनाम् । द्वितीयां कालवेलायां तृतीयां च बहिर्मुवि ॥ १ ॥ तुयी विकालवेलायां, तिस्रश्रावश्यकक्षणे । एवं सङ्घस्य कार्य च, मम कार्ये भविष्यति ॥ २ ॥ " इत्याकर्ण्य श्रीगुरुं नत्वा तौ यती पश्चादेत्य
1
tional
For Private & Personal Use Only
www.jainelibrary.org