SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः ॥६५॥ विज्ञानमिति । ततो वेश्यया सर्षपराशेरुपरि शूचिका न्यस्य, तदुपरि पुष्पं स्थापयित्वा तदुपरि च नत्यं कृतम् ।। श्रीस्थूलभद्र मुनिश्वरतदा मनाक् सर्षपैककणं शचिका पुष्पाणि (च) न चलितानि । वेश्याकलातुष्टो रथी सादरं जगाद । किन्त्वं वद चरित्रम्। तुभ्यं दास्याम्यहम् । वेश्ययोक्तम्-मया कापि कला न दर्शिता । जातिसिद्धमिदं जीवानां पूर्वभवाभ्यासात् । यतः-“तरन्ति तिमयोऽम्भोधि, व्योम्नि चलन्ति पक्षिणः । देवा जगत्सु यान्तीति, जातिसिद्धं न । चित्रकृत् ॥ १॥ अभ्याससिद्ध ते लुम्बि-कर्तनं मम नर्तनम् । न किञ्चिदुष्करं ह्येतत्, कृतं तुष्टया तदावयोः ॥ २॥ भोगोज्वलवपुः स्थूल-भद्रो भोगैकलालितः। अजात्युत्थमनभ्यस्तं, यच्चक्रे दुष्करं हि तत् ॥ ३ ॥" भोगा मया | समं येन द्वादशसंवत्सरी भुक्ताः । येन च मम चित्रशालायां तिष्ठता षडरसाहारभोजिता स्थूलभद्रेण यन्न मनाग् व्रतं । खण्डितं तच्चित्रकृत् । उक्तं च तया-" न दुक्करं अंबयलुंबतोडनं, न दुक्कर सरिसवनच्चियाए । तं दुक्करं तं च । महाणुभावो, जं सो मुणी पमयवर्णमि वुछो ॥ १॥ रथी तां प्रति जगौ-भद्रे कः स्थूलभद्रः यस्त्वयैवं वर्ण्यते ? तयोचे शकडालमन्त्रिपुत्रः स्थूलभद्रः । रथी जगौ-य एवंविधोऽस्ति तस्य दासानुदातोऽस्मि । तस्याः पार्श्वे स्थूलभद्रस्वरूपं श्रुत्वा धर्ममाकर्ण्य प्राप्तवैराग्यो रथी स्थूलभद्रं च वीक्ष्य राजानमुत्कलाप्य गुरोः पार्श्वे दीक्षा ललौ । क्रमा ॥६५॥ Jain Educationalitional For Private & Personel Use Only allww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy