________________
प्रमोद्य सिंहगुहामुनिर्गुरुपार्श्वे जगाम । गुरुभिरुक्तं महानुभाग ! मया त्वं निषिद्धस्तत्र गच्छन् । तत्र यत् स्थूलभ-al द्रेण कृतं तत् कोऽपि कर्तुं न शक्नोति। स्थूलभद्रसमः कोऽपि नास्ति । यतः एवं स्तुतिं कुर्वन्ति कवयः। “रे काम वामनयना ।
तव मुख्यमस्त्रं, वीरा वसन्तपिकपञ्चमचन्द्रमुरव्याः। त्वत्सेवका हरिविरंचिमहेश्वराया, हाहा हताश मुनिनाऽपि कथं हतोऽसि au१॥ श्रीनन्दिषेणरथनेमिमुनीश्वराई-बुद्ध्या त्वया मदन रे मुनिरेष दृष्टः । ज्ञातं न नेमिजिनजम्बुसुदर्शनानां, तुर्यो al
भविष्यति निहत्य रणाङ्गणे माम् ॥२॥श्रीनेमितोऽपि शकडालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयन्तु वशी प्रविश्य ॥ ३ ॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णीयते दृषदयोऽपि जलायते वा, वैडूर्यमेति विकृति ज्वलनात पुनर्न ॥ ४ ॥".oll अन्यदा राज्ञा वेश्यायाश्चरित्रस्वरूपं ज्ञातम् । ततो भूपेन कोऽपि रथकारः कुशलो वेश्याय दत्तः । ततो रथकृद्वेश्यायाः पार्श्वे गतः । अकामा वेश्या तं बोधयितुं जगौ। स्थूलभद्रमृते पुमानन्यो धर्मवान् कुशलः कोऽपि न दृश्यते ।। स्थूलभद्रवर्णनं क्रियमाणं वेश्यया तदानीमसहमानो रथकृत् स्वां कलां दर्शयितुं, शयनस्थ एवासन्नाम्रवनाम्रलुम्बीः पुङ्खमुखपुखायै वेधं वेधं ततोऽर्धचन्द्रबाणेन वृत्तं छित्त्वाम्रलुम्बी करे गृहीत्वा वेश्याथै ददौ जगौ च । पश्य मम ।
Jain Education
N
inal
For Private Personel Use Only
W
w.jainelibrary.org