________________
Jain Education
यति । अयमभिग्रहो गृहीतस्त्वया तव प्राक्कृततपसो नाशाय भविष्यति । भारसहस्रमितस्य गुडस्य नाशाय तुम्बिका| कलिकेव । एवं श्रीगुरुभिर्निषिद्धोऽपि गृहीतस्थूलभद्र व्यूढाभिग्रहः सिंहगुहामुनिः कोशागृहं प्राप स्थूलभद्र इव चित्र| शालायां स्थितश्च । स्थूलभद्ररपर्द्धयाऽत्रैष समागादिति ध्यात्वा वेश्यया षड्रसाहारैरभोजि सः । ततः कृताद्भुतशृङ्गारा | भृङ्गाराभ्युन्नतस्तनी हावभावादिविलासपरा कोशा मुनिपार्श्वेऽभ्येत्यास्थात् । तां तादृशीं वीक्ष्य स मुनिश्रुक्षोभ चेतसि । | यतः - " चार्वङ्गया को न पात्येत, कीलया को न दह्यते । को न मुह्येत लक्ष्मीभिः, को न याति विधेर्वशम् ॥ १ ॥ " स्मरातुरं भोगं याचमानं तं मुनिं वीक्ष्य वेश्याऽऽचष्ट | अर्थों विलोक्यते अर्थ विना कोऽपि ईदृग्भोगं भोक्तुं न शक्नोति । स्मरातुरः साधुः प्राह- अधुना मम पार्श्वे नास्ति धनं सुन्दरि ? मया तुभ्यं दास्यते । ततो वेश्या तं प्रतिबोधयितुं | प्राह-यदि भोगेच्छाऽस्ति तदा नेपालदेशे व्रज । तत्रापूर्वस्य साधो रत्नकम्बलं लक्षमूल्यं राजा दत्ते । तत्र गत्वा तमत्रानय ततश्चेहितं कुरु । ततः कामातुरो मुनिश्चतुर्मासमध्येऽपि नेपालदेशे गतः । नृपाद्रत्नकम्बलं लब्ध्वा | चलितः । वर्त्मनि तस्य गच्छतः पट्टयां कीरोऽवग् । लक्षं याति याति । चैौरैस्तत्रागत्य रत्नकम्बलं गृहीतम् । ततः | पश्चाद् गत्वा रूपपरावृत्तिं कृत्वा पुना रत्नकम्बलं भूपात् प्राप मुनिः । वंशयष्टिमध्ये क्षित्वा पुनश्चलितो मुनिस्तस्मिन्
For Private & Personal Use Only
ww.jainelibrary.org