SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ ६३ ॥ Jain Education | स्यर्षेरिन्द्रियजयादिजयोत्कर्षदर्शनादेवमभिग्रहं वेश्या ललौ । राजा प्रसन्नः सन् यं भोगाय मत्पार्श्वे प्रेषयति तं | विना ममान्ये पुरुषाः सहोदरा भवन्ति अद्यप्रभृति । इतश्चतुर्मासान्ते व्यूढाभिग्रहास्त्रयो यतयो गुरुपार्श्व प्रतिचेलुः । त्रयोऽप्यागत्य गुरुपादान् नेमुः । ततः श्रीसम्भूतिविजयसूरयो जगुर्यूयं अहो दुष्करकारकाः । ततः स्थूलभद्रमा- | यातं वीक्ष्य स्वयमुत्थाय दुष्करकारक दुष्करकारकेति श्रीगुरुर्जगौ । त्रयोऽपि यतयः पूर्वायाता दध्युरिति । वयं सामान्यकुलोद्भवाः । अयं तु स्थूलभद्रः शकडालमन्त्रिपुत्रः । तेन गुरुभिरस्मास्वेवं प्रोक्तम् । स्थूलभद्रे षड्रसाहारादि भोक्तरि । यतः- “ कोशावर्ष्मणि सज्जितेऽङ्कखलके नेपथ्यवृत्त्यावृते, द्वात्रिंशनमितलक्षणैर्वलयिते तच्छुक्लशङ्कासुरैः ।। | बोधास्त्रेण निहत्य विश्वजयिनं श्रीस्थूलभद्रः स्मरं, लेभे दुष्करकारकेति मुदिताद्विप्साप्रसादं गुरोः ॥ १ ॥ " दुष्करकारक दुष्करकारक इति जगदे । गुरूणामपि एकेऽधिकाः एके स्वल्पा न्यूनाः । अग्रेतनचतुर्मास्यां वयं दुष्कर दुष्करकारका | भविष्याम इति निश्चित्य कष्टेनाष्टौ मासान् नीत्वा सिंहगुहारथो मुनिः श्रीस्थूलभद्रव्यूढमभिग्रहं ययाचे । गुरुभिरुक्तं| स्थूलभद्रस्य स्पर्द्धा का तवेयं महानुभाग स्थूलभद्रेण यत् कृतं तदन्यो न कोऽपि कर्तुं शक्नोति । अर्कादन्यो दिनं कः करोति, चन्द्रादन्यः कः सुधां क्षरति, जलदादन्यः कः शस्यं निष्पादयति, चक्रवर्तिनोऽन्यः कः षट्खंडं साध For Private & Personal Use Only श्रीस्थूलभद्र मुनीश्वरचरित्रम् | ॥ ६३ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy