SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कृत्वा रजोहरणमुखवस्त्रिके गृहीत्वा राजपाद्ये गत्वा धर्मलाभं ददौ । राज्ञोक्तं किमालोचितं स्थूलभद्रोऽवग्-आस-1 मन्ताल्लोचितं लोचकृतो मया व्यापारेण सृतं ममेत्युक्त्वाऽवम् –'हस्ते मुद्रा मुखे मुद्रा, मुद्रा स्यात् पादयोईयोः ।। ततः पश्चाद्गृहे मुद्रा, व्यापारः पञ्चमौद्रिकः ॥ १॥” इत्युक्त्वा श्रीधर्मलाभाशिषं दत्त्वा श्रीसम्भूतिविजयाचार्यपार्श्वे ।। गत्वा सर्वसामायिकोच्चारपूर्वकं व्रतमादित श्रीस्थूलभद्रः । इतो राज्ञा नन्देन श्रीयकस्य मन्त्रिपदं दत्तम् । स्थूलभद्रवियोगार्ता वेश्यां श्रीयकः प्रबोधयामास शोकमुत्तारयामास तस्याः । स्थूलभद्रस्तु सम्भूतिविजयाचार्याघिसेवया तपः । कुर्वन् सूत्रसूत्रार्थे पपाठ । अन्यदा तपात्यये शिष्यत्रयं सम्भूतिविजयपार्श्वे एवमभिग्रहं ललौ । एकेनोक्तं सिंहगुहायां मया कायोत्सर्गेण चतुर्मासी स्थातव्या १ द्वितीयेनोक्तं मया दृग्विषाहिबिलद्वारे चतुर्मासी कायोत्सर्गेण स्थातव्या । २ तृतीयेनोक्तं मया कायोत्सर्गेण कूपभारपट्टे चतुर्मासी स्थातव्या ३ स्थूलभद्रश्चतुर्थोऽवग्-भगवन् कोशावेश्यागृहे । चित्रशालायां मया षड्रसान्नपरेण स्थातव्या चतुर्मासी ४ सम्भूतिविजयेनोक्तं, गच्छत यूयं स्वेहितस्थानेषु ।। यत्नतः स्थेयं भवद्भिः धर्मपरैः । आद्या ऋषयस्त्रयोऽपि सिंहगुहाद्वारदृग्विषाहिबिलद्वारकूपभारपट्टेषु ययुः ।। स्थूलभद्रस्तु गुरुं नत्वा कोशावेश्याशालायां गतो यावत्तावत् कोशा वेश्या हृष्टा कृताञ्जलिरभ्युत्थाय । en Education For Private Personel Use Only O wainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy