________________
॥ श्रीभरते
श्वर वृत्तिः ॥
सन्तोषेश्वर्यलिप्सूनां, न राज्ये रमते मतिः । त्यक्त्वा मन्त्रिपदं स्थूल-भद्रो भेजे यथा व्रतम् ॥ १ ॥
॥ ६१ ॥
तत्कथाचेयं । पाटलीपुरे नवमनन्दराज्ञः कल्पवंशावतंसः शकडालमन्त्री बभूव । तस्य लक्ष्मीवती पत्नी ।। ५ तयोः पुत्रौ स्थूलभद्रश्रीयकाभिधौ जातौ । सप्त पुत्र्यश्च ता इमाः इत्यादिसम्बन्धः श्रीयककथाया ज्ञातव्यः । शक - | डालाभिधे मन्त्रि - नायके त्रिदिवं गते । नन्दभूपो जगादेति, श्रीयकं तत्सुतं प्रति ॥ १ ॥ मन्त्रिपदं क्रमागतं त्वं | गृहाण | श्रीयको जगौ - मम भ्राता वृद्धः स्थूलभद्रः कोशावेश्यागृहे समस्ति । तस्य तत्र तिष्ठतो द्वादशाब्दी जाता ||| ततो राज्ञा स्थूलभद्रो वेश्यागृहादाकारितः क्षितिपसमीपे गतः । राजानं नत्वा यावत्स्थूलभद्रोऽग्रे ऊर्ध्वं स्थितः तावद्राज्ञा | सबहुमानं प्रोक्तम्- तव पिता दिवं गतः तेन क्रमादागतमपि पदं त्वं गृहाण | स्थूलभद्रोऽवक् - स्वामिन्नादेशः प्रमाणं परं विमृश्यैव गृह्यते मन्त्रिपदं मया । राज्ञोक्तं विचारय, ततोऽशोकवनमध्ये गत्वा स्थूलभद्रो विश हस्ते व्यापारे गृहीते पारवश्यं भवति । यदि राज्ञश्चित्तानुवर्तने न चल्यते । तदा क्षणमध्ये राजा रुष्टः प्राणान्नयति यतः “जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥ १ ॥ ते | धन्याः सुधियस्ते च ये तद्भोगसुखं तदा । विमुच्य संयमं मुक्ति-सुखदं लान्ति हेलया ॥ २ ॥” एवं विमृश्य लोचं
॥ ६१ ॥
Jain Education
श्रीमेतार्यमुनीश्वरचरित्रम् श्रीस्थूलभद्र
मुनीश्वर
चरित्रम् |
For Private & Personal Use Only
www.jainelibrary.org