SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ध्यायतो निर्गतचक्षुषस्तदोत्पन्नकेवलज्ञानस्य मुनेरायुषः समाप्ते तत्क्षणमेव मुक्तिगमनमभूत् । स क्रौञ्चः कुञ्चितग्रीवो । विचिन्वन्नङ्गणे गतो दास्या भापितोऽकस्माद्यवांच्छकृद्वारेण मुमोच । ततस्तं यतिं मृतं यवान् क्रौञ्चगलितमुक्तान् । वीक्ष्य लोकाः प्रोचुः । अयं यति पतिजामाताऽनेन स्वर्णकारेण मुधा हतः। तेन राजा एनं सकुटुम्ब हनिष्यति । शशुलाप्रक्षेपादिना । ततो राजा हतं यति ज्ञात्वा तं सकुटुम्बं हन्तुं स्वसेवकान् प्रेषयामास । यावत्ते राजप्रेषितास्तत्र। सौवर्णिकगृहे समायातास्तावत् स्वर्णकृत् समुत्पन्नोत्पातिकबुद्धिर्भातश्च यतिवेषं गृहीत्वाऽस्थात् । यतः-" लज्जातो, नभयतो वितर्कविधितो मात्सर्यतः स्नेहतो, लोभादेव हठाभिमानविनयशृङ्गारकीयादितः। दुःखात् कौतुकविस्मय व्यवहृतेर्भावात् कुलाचारतो, वैराग्याच्च भजन्ति धर्मममलं तेषाममेयं फलम् ॥ १॥” ततस्तैः सुभटै राज्ञः पार्थे । गत्वोक्तम् । स्वामिन स्वर्णकृत सकुटुम्बो व्रतं गृहीत्वा भीतोऽस्थात् । ततो राजा तत्रैत्यावग्-भो स्वर्णकृत् त्वया यतिहतो महत्पापं लग्नं चारित्रग्रहणात् मया मुक्तोऽसि । सांप्रतं यदि त्वयाऽन्येन केनचित् कुटम्बमध्येन संयमो मोक्ष्यते तदा सकुटुम्ब त्वां हनिष्यामि । ततः स सौवर्णिकः श्रीवीरपादान्ते गत्वा दीक्षां लात्वा क्रमात् स्वर्गसौख्यभागभूत् । ॥ इति श्रीमेतार्यवाचंयमकथानकं समाप्तम् ॥९॥ Jain Educational For Private & Personel Use Only Enaw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy