SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ प्रवाहे स्नपयसि तदाऽहं तव पुत्राय भूपसुतां दास्यामि । ततो मेतेन देवपार्थात् समुद्रप्रवाहमानीय सर्वलोकसाक्षिक श्रीमेतार्य मुनिवरमेतार्थः स्नापितः। तथाऽपि राजा न दित्सति तदाभयोऽवग् पूर्व किमुत्तममध्यमविवाहो नाभूत् । यतः-"एकवर्णमिदं । चरित्रम्। सर्व पूर्व आसीत् ॥१॥” इति अभयोक्तं श्रुत्वा श्रेणिकः पुत्री ददौ । अन्या अपि अष्टौ पूर्व वरिताः कन्या मेतार्यमङ्गीचक्र । राज्ञा धवलगृहमर्पितम् । नवभिः प्रियाभिः सुखमनुभवन् मेतार्यो द्वादशाब्दीमतिचक्राम । ततः पुनरपि । देवेन बोधितः । ततः प्राप्तवैराग्यो मेतार्यः स्वपुत्रेभ्यः स्वां श्रियं वितीर्य सदारो गुरुपार्श्वे व्रतं जग्राह । क्रमेण मेतार्यों जिनकल्पविहारं प्रपेदे । अन्यदा पुरमध्ये गोचर्यायां भ्रमन् मेतार्यः स्वर्णकारगृहे जगाम । तदा श्रेणिको जिनपूजा । कुर्वन् त्रिसन्ध्यं अष्टोत्तरशतेन स्वर्णमययवसमूहेन स्वस्तिकं करोति देवाग्रे नित्यम् । तदानीं स्वर्णकारस्तान् यवांस्तत्र । हट्टे मुक्त्वा कार्यार्थ गृहमध्ये गतः ततोऽकस्मात्तत्रागतः क्रौञ्चो यवभ्रान्त्या तान् स्वर्णयवान् मुनेः पश्यतो जगाल। ततो बहिरागतो हेमकारो यवानपश्यन् मुनि पृष्टवान् । क्व गता मे यवाः ? । त्वया गृहीता अथवा अन्येन । केनचिद्गृहीताः । स मेतार्यः पापभीरुदध्यौ । यदि यवगमनस्वरूपं कथ्यते तदाऽसौ क्रौञ्चं हन्ति । ततो मौनमाश्रितो मुनिः । कृतमौनं मुनिं चोरस्त्वमिति जल्पन् स्वर्णकृदावधेण तस्य मस्तकं वेष्टयामास दृढम् । ततस्तस्य जीवदयां ॥६०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy