________________
Jain Education I
स कलङ्क उत्तरति मम । तदा द्वादशाब्दीं भोगान् भुङ्कत्वा त्वदुक्तं निश्चयात् करिष्ये । त्वं तु कृपापरोऽसि। ततः प्राग्भवदेवः प्रीतः सन् रत्नौघोत्सर्गिणं छागं दत्त्वा कांचिद्विद्यां चोक्तत्वा स स्वर्गेऽगमत् । ततो यानि रत्नानि स छाग उत्ससर्ज । तै रत्नैः स्थालं भृत्वा मेतः पुत्रवचसा भूपपार्श्वे तं प्राभृतीकृत्य स्वसुतार्थं कन्यां याचते । ततो मन्त्रिभिर्हक्कितो मेतः प्रतिदिनं तथा करोति । तानि रत्नानि सर्वदिक्प्रसरतेजांसि वीक्ष्य राजा हृष्टोऽपि निजाङ्गजां न दत्त । अन्यदाऽभयेनाभयं दत्त्वा रत्नप्राप्तिवृत्तान्तं पृष्टो मेतस्तं च्छागस्वरूपं प्राह । ततोऽभयेन तं छागं रत्नौघोत्सर्गिणं दृष्ट्वा राज्ञोऽग्रे प्रोक्तम् । ततः स्वगृहे आनीतोऽभयेन छागो दुर्गन्धोत्सर्गी (जातः) । पश्वान्मेतायार्पितः । उचे चाभयः स्वामिन् मेतस्य गृहे छागो रत्नौघं देदीप्यमानं यद् व्युत्सृजति । तत्कस्यापि देवस्य चेष्टितं तेनायं न मेतश्चाण्डालः | किन्तु कोऽपि सत्तमः पुमान् । तेन परीक्षा क्रियते । ततोऽभयकुमारस्तं मेतमाकार्य तातवचोद्वारेण प्राह - श्रीमहावीरो वैभारगिरौ समायातोऽस्ति । तत्रान्तरा यो विषमो मार्गोऽस्ति । स च त्वया विशिष्टपद्या निष्पादनात् सुगमः | कर्तव्यः । ततस्तेन मेतेन देवता सानिध्यतः क्षणाद्भयोक्तं कृतम् । तथाऽद्यापि राजगृहे दृश्यते । भूपतिनिर्देशात् प्राकारो हिरण्यमय उत्तुङ्गशृङ्गशृङ्गारोऽभयकुमारेण मेतपार्श्वात् कारितः । अभयोऽवग् भो मेत यदि ते सुतं समुद्र
For Private & Personal Use Only
Www.jainelibrary.org