SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- प्रियां प्रति जगौ। यद्यात्मनः सा पुत्री मृता नाभविष्यत् तदा तस्या अधुना विवाहमहोत्सवमीदृशमहमपि व्यधा- श्रीमेतार्य श्वर वृत्तिः॥ स्यम् । तस्याः पुत्र्या विवाहेन मनोरथं सफलमकरिष्ये । मेता स्वपुत्रस्वरूपं जगौ-ततः स मेतो रुष्टः सन् राज-IVIII मुनिवरमार्गे समेत्य तं मेतार्य शिबिकाया उत्तार्य लोकसाक्षिकं जगौ-रे पुत्र त्वं कथमसदृशकुलोत्पन्नाः कन्या एताः पर्यगैषीः । आत्मनः कुलस्य सदृशा एव कन्या परिणीयते । ततः एताः कन्या विहायात्मनो गृहमलङ्कुरु । आत्मनः । कुलस्य सदृशां कन्यामङ्गीकुरु । पश्यतां सर्वलोकानां स मेतः तं मेतार्य स्वगृहं नीतवान् । ताः सर्वाः कन्या मातापितृभिः स्वस्वगृहे नीताः। ततः प्रत्यक्षीभूय देवो रहसि जगौ । त्वया पूर्व स्वर्गे मया सहोक्तमभूत् । यः पूर्व स्वर्गाच्युत्वा नरो भवेत् स सुरेण प्रतिबोध्यः। त्वं तु प्रथमं च्युतः स्वर्गात् । मनुष्यत्वं च प्राप्तं त्वया। मया प्रतिबोधितोऽपि न प्रबुद्धः तेनेदं कृतम् । मनुष्यजन्म दीक्षाग्रहणेन सफलीकुरु । सोऽपि मेतार्यः प्राह । त्वयाऽहं विषयासक्तो मायः प्रतिबोधितस्तद्वरं कृतम् । यत्त लोकमध्येऽहं विगोपितस्तन्मेऽतीव दुनोति । देवोऽवग-संसारस्तु विरसोऽस्ति । यतः-II Faप्राणेभ्योऽपीह येऽभीष्टा, यैर्विना न क्षणं रतिः। वियोगः सह्यते तेषा-महो कष्टा भवस्थितिः॥१॥नान्तकस्य प्रियः कश्चि-न्न लक्ष्म्याः कोऽपि वल्लभः। नाप्तो जरायाः कोऽप्यस्ति, यूयं तदपि सुस्थिताः॥२॥" मेतार्यःप्राह-वकथितं करिष्ये । यदि ॥५९॥ in Educatan International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy