________________
लोका जगुः । महानुभाग ! माऽत्रराजगृहे गच्छ राजपुत्रो दुष्टोऽस्ति । पुरोहितपुत्रश्च मुनीनुपद्रवति तेनान्यगृहे गच्छ । मुनिं राजभुवने प्रविशन्तं दृष्ट्वा तावागत्य जल्पतःस्म । भो मुने आवाभ्यां समं त्वया रम्यते ? मुनिर्जगौ रम्यते मया । ततो रहसि गत्वा चतुःशालायां कुमारौ मुनिना समं क्रीडां कर्तुं प्रवृत्तौ । यथातथा जल्पन्तौ धर्मावहीलनं कुर्वाणी युद्धप्रपञ्चन मर्माभिघातेन मुखोद्वान्तफेनौ कृत्वा तद्देहात् सन्धीरुत्तार्य ततो निःसृत्य शनैर्बहिरुद्याने प्रतिमया तस्थौ मुनिः । इतो राजा तौ तथा क्रन्दन्तौ ज्ञात्वा मुनिकृतं पराभवं च रुष्टो जगौ - भो भटा येन मुनिना एतौ कुमारावीदृशीं दशां प्रापितौ तं विलोकयत । ततो राजपुरुषैर्मुनिं प्रतिमास्थं वीक्ष्य राजाग्रे निवे - दितम् । आगत्य वने राजा महामुनिं वीक्ष्य प्राह भो यते ! किमीदृक् पापं कृतम् ? यतिराह - राजन् महाकुले | जातावावां किं यतीनां मारणाद्यन्यायः क्रियते । इति श्रुत्वा राजा लज्जया नत्वाऽधोमुखोऽभवत् ! धर्मलाभाशिषं | दत्त्वा राजर्षिराचष्ट । भो चन्द्रावतंसपुत्र ! तव यत्यवगणनावहीलनादि न युज्यते ॥ यतः-- "हीलिताः साधवोऽत्यन्तं, | ददते नरके गतिम् । आराधिताः शिवं पुंसां, विश्राणयन्ति सन्ततम् ॥ १ ॥ " तव पुत्रो वाचंयमादीनामवहीलनां करोति । त्वं तु सहसे स्त्रं भ्रातरं यतिं ज्ञात्वा राजा जगौ - एतौ कुमारौ मुग्धौ । अतः परं केषाञ्चित् साधूनामवहीलनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org