SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ॥ ५७॥ ॥ श्रीभरते- करुणापरत्वात क्षुधार्तयोर्बान्धवयोर्द्विधा कृत्वा ददौ । एतौ बान्धवौ लघू अहं तु वृद्धः । वृद्धस्य यथातथा खादनं । श्रीमेतार्यश्वर वृत्तिः॥ न वरम् । ततो यावत्तौ मोदकं खादतः स्म तावदचेतनीभूतौ तौ बान्धवौ दृष्ट्वा दध्यौ राजा । न माता तु विषं ददाति चरम् । पुत्राय तेनात्र केन कारणेन भाव्यं । ततस्तत्क्षणात् कुमारौ स्वर्णमानीय तत्पानीयं पायिती राज्ञा । ततस्तौ प्रगुणौ । कृतौ । दासी पृष्ट्वा विषप्रक्षेपस्वरूपं ज्ञात्वा राजांतःपुरमध्येऽभ्येत्य विमातरं प्रति जगौ-धिग् त्वां या त्वमेवंविधं कूटं मम मृत्यवेऽकार्षीः । मयि कूटं रचितं त्वया तत् तव पुत्रयोरुपरि पतितमभूत् । मया तु प्रगुणीकृतौ । मम तु पुराऽपि राज्येच्छा नास्ति । त्वदुपरोधात् राज्यं कृतं-राज्येन किं क्रियते । येनात्रैवंविधा पापनिबन्धिनी श्वभ्रदा यिनी बुद्धिर्जायते । ततो वात्सल्यात प्रियदर्शनापुत्राय गुणचन्द्राय वृद्धायावनीराज्यं दत्त्वा स्वयं संयम सागरचन्द्रो Kजग्राह । क्रमादेकादशाङ्गपारीणः सागरचन्द्रर्षिरभूत् । अन्येयुः साधुसंघाटकोऽवंतीतः समागतः सागरचन्द्रर्षि णाऽवतीस्वरूपं पृष्टो जगौ-तत्र मुनिचन्द्रराजपुत्रः सौवस्तिकनामपुरोहितपुत्रयुक्तः पाखण्डिनः साधूंश्च बाधते । | तन्निशम्य गुरुमापृच्छय सागरचन्द्रर्षिः स्वयमवन्त्यामगात् । साधूनामुपाश्रये विश्रान्तो मुनिः । प्रातः स्वागमनस्वरूपं भ्रातृसुतप्रबोधनादियुतं प्रकाश्य मध्यान्हे निर्ययौ मुनिः । सागरचन्द्रराजर्षि राजगृहमध्ये गच्छन्तं दृष्ट्वा ॥५७॥ Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy