________________
राज्ञा कायोत्सर्गः पारितः। ततोऽकस्मादायुषः क्षये राजा स्वर्ग गतः। तत्पट्टे सागरचन्द्रो राजा न्यायात् राज्य चकार । स राजाऽन्यदा मातुः सपत्नी प्रियदर्शनां प्रति प्राह-राज्यश्रीरियं लोकोऽपि तातं विना मां प्रीणाति नो तेन गुणचन्द्रायानुजन्मने राज्यश्रियं वितीर्याहं दीक्षां जिघृक्षामि यदि तवानुमतिर्भवेत् । तयोचे-वत्स धन्यस्त्वं यस्यासारे संसारे मनो न रज्यते । राज्यभारो महान् अस्य त्वदनुजस्य लघोर्दुःशकः तेनाधुना त्वया राज्यत्यजने न वक्तव्यम् । तया प्रियदर्शनया प्रबोधितो निर्विकल्पमना राजा प्रजाः पालयामास । क्रमात प्रवर्द्धमानमहर्द्धिराजानमवलोक्य स्त्रीस्वभावसुलभामीÜमुदवहत् प्रियदर्शना । यतः “ अन्यस्यापि कलेर्मूलान्, पोषिका एव योषितः। | सापत्नकस्य किं वाच्यं, यस्य ता जन्मभूमयः ॥ १॥ यो ब्रह्मा विष्टपस्यास्य, स्रष्टेति श्रूयते जनैः ।। सोऽपि जानाति न स्त्रीणां, चित्तानि चरितानि च ॥ २ ॥” तस्मिन् निर्दोषेऽपि भूपतौ सा द्वेषं दधाति ।। बाह्यालीलीलयाऽन्येधुर्वने राजा गतः । तत्रस्थस्य राज्ञो मोदकान् दास्या हस्तेन प्रातराशार्थ सुदर्शना प्रेषीत् । वर्त्मनि प्रियदर्शना सपत्नीजातत्वात् भूपं हन्तुकामा तान् मोदकान् हस्ते गृहीत्वा विषमिश्रितान् कृत्वा प्रीतिपुरस्सरं । दास्यै ददौ । वने क्रीडां कृत्वा राजा यावद् बन्धुद्वययुक्तः सिंहासनेऽस्थात् तावदासी मोदकानानीय ददौ । राजा तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org