________________
॥ श्रीभरते
जैनधर्म्ममाराध्य प्रान्ते प्रव्रज्यां गृहीत्वा सर्वकर्म्मक्षयात केवलज्ञानं नागदत्तः प्राप । ततो महीमण्डले भूरिभव्यजनश्वर वृत्तिः॥ कुमुदवनं वचनगोभिः प्रबोध्य नागदत्तकेवलिचन्द्रमा मुक्तिं जगाम ।
॥ ५४ ॥
इति अदत्ताग्रहणे नागदत्तकथा समाप्ता ॥ ७ ॥
क्रोधमानादिदर्पाणां यो न याति वशं मनाग् । स एव लभते मुक्तिं, नागदत्तकुमारवत् ॥ १ ॥
तथा - पूर्व कुमारौ साधू भूत्वा तपः कुर्वाणौ स्वर्गं गतौ । तत्रस्थाभ्यां ताभ्यां मिथः एवं प्रोक्तम् - यः | प्रथमं देवलोकान्मर्त्यलोकं प्राप्नोति स देवेन स्वर्गादागत्य प्रतिबोध्यः । लक्ष्मीपुरे पुरे धनदत्तः श्रेष्ठी वसतिस्म । देवदत्ता | पत्नी । अन्येद्युः पुत्रार्थ नागदेवतामारराध श्रेष्ठी । प्रसन्नीभूय देवोऽवग्--तव पुत्रो भविष्यति । इतः क्रमात् स्वर्गादेकः | साधुजीवदेवो दत्तपुत्रोऽभूत् । जन्मोत्सवं कृत्वा पिता नागदत्तेति नामादात्सूनोः । क्रमाद्वासप्ततिकलाकुशलोऽजनि । गन्धर्वनागदत्तोऽसौ ख्यातो गन्धर्वकौशलात् । भुजङ्गमकेलिव्यसनी जातः । इतोऽवधिज्ञानेन स्वमित्रं नागदत्तं व्यसनिनं | मत्वा देवः प्रबोधयति । नागदत्तो मनागपि व्यसनं न मुञ्चति । सर्पान् खेलयति । अन्येद्युः सप्पैः करंडकं भृत्वा मित्रैः
1
Jain Education International
For Private & Personal Use Only
श्रीनागदत्तकथानकम् ।
॥ ५४ ॥
www.jainelibrary.org