________________
नागदत्तपार्श्व दृष्टा तैः राज्ञः कथितं नागदत्तस्वरूपम् । राजा जगौ । एवंविधो यो दंभं कुर्वन्नीदृशं कर्म करोति,
तस्य शलारोप एव क्रियते । ततोऽवनीपतेरादेशाविडम्बनाकृते खरारूढं विधाय नागदत्तं राजसेवकाः शुलारोपकते INVवध्यभमि नीतवन्तः । तैः वध्यवादित्रेषु वाद्यमानेषु नागदत्तः शूलिकायां यावत् प्रक्षिप्तस्तावच्छूला सिंहासनमभत् ।।
प्रहारा आभरणानि । एवं हित्रिवारे कृते सति राजा तत्रागाद्यावत्तावच्छासनदेव्या तत्पुण्याकृष्टया तत्रागतया व्योमस्थितया प्रोक्तम्-भाग्यवान् विद्यते नागदत्त एष नरोत्तमः । यतोऽसौ परकीयं खं न लाति प्राणात्ययेऽपि । अस्य पुरा धनदत्तेन दीनारशतं रक्षितम् । अधुना तु वसुदेवेनेदं छलं कृतम् । असौ परद्रव्यपराङ्मखो विद्यते ।।
एवमुक्त्वा गतायां शासनदेव्यां, राजा तं सन्मान्य पट्टकुञ्जरारूढं कृत्वा महोत्सवपुरस्सर स्वगृहे आनीय बहुद्रव्यLalदानेन सन्मानयामास । यतः-“धम्मो मंगलमूलं, ओसहमूलं च सव्वदुरकाणं | धम्मो बलं च विउलं. धम्मो
ताणं च सरणं च ॥ १॥ धम्मो मंगलमुकिलु, अहिंसा संजमो तवो । देवावि तं नमसंति, जरस धम्मे सया मणो ॥२॥" ततो राज्ञा धनदत्तपा दीनारशतं दापितं तस्मै । वसुदेवो देशत्यागं कारितो दुर्जनत्वात् । यतः । “अधर्माल्लभते जन्तु-दुःखरोगादिसन्ततिम् । अल्पायुस्त्वमसन्मानं, दौर्भाग्यं निःस्वतां पुनः॥१॥" ततश्चिरं
CS4
Jain Education ll
For Private & Personel Use Only
I
ww.jalnelibrary.org